________________
१४७
वेयड्डगमण-इन्दबंधण-लंकापवेसणाहियारो-१२/१-२३ तो भणइ इन्दभूई, उप्पत्ती सुणसु सूलरयणस्स । धायइसण्डेरवए, सयदारपुरे दुवे मित्ता ॥१०॥ एक्को त्थ हवइ पभवो, सुमित्तनामो तओ भवे बीओ। एगगुरुसन्नियासे, सिक्खन्ति कलागमं सयलं ॥११॥ जाओ रज्जाहिवई, तत्थ सुमित्तो गुणेहि पडिपुण्णो । पभवो वि तेण मित्तो, अप्पसरिच्छो कओ ताहे ॥१२॥ अह अन्नया कयाई, रण्णं तुरएण पेसिओ सिग्छ । गहिओ सुमित्तराया, भिल्लेहि अणज्जसीलेहिं ॥१३॥ मेच्छाहिवेण दिन्ना, वणमाला तत्थ नरवरिन्दस्स । परिणेऊण नियतो, सयदारपुरं अह पविट्ठो ॥१४॥ दद्रुण मित्तभज्जं, पभवो कुसुमाउहस्स बाणेहिं । विद्धो असत्थदेहो, खणेण आयल्लयं पतो ॥१५॥ दुक्खभरपीडियङ्ग, पभवं दट्टण पुच्छइ सुमितो । दुक्खस्स समुप्पत्ती, कहेहि जा ते पणासेमि ॥१६॥ अह भणइ तत्थ पभवो, वेज्जनरिन्दाण मित्तपुरिसाणं । आहावणओ य लोए, एयाण फुडं कहेयव्वं ॥१७॥ नमिऊण तस्स चलणे, पभवो परिकहइ दुक्खउप्पत्ती । दट्टण तुज्झ महिलं, सामिय आयल्लयं पत्तो ॥१८॥ सुणिऊण वयणमेयं, भणइ समित्तो निसास वणमालं । वच्च तमं वीसत्था, पभवसयासं पसन्नमही ॥१९॥ गामसहस्सं सुन्दरि, देमि तुम जइ करेहि मित्तहियं । जइ तं नेचछसि भद्दे ! घोरं ते निग्गरं काहं ॥२०॥ भणिऊण एवमेयं, वणमाला पत्थिया समपओसे । पत्ता पभवागारं, तेण य सा पुच्छिया सहसा ॥२१॥ कासि तुमं वरसुन्दरि ! केण व कज्जेण आगया एत्थं ? । तीए वि तस्स सिटुं, निययं वीवाहमाईयं ॥२२॥ वट्टइ जावुल्लावो, ताणं तावाऽऽगओ तहिं राया । पच्छन्नरूवधारी, चिट्ठइ भवणन्तरनिलुक्को ॥२३॥
तदाभणतीन्द्रभूतिरुत्पत्तिः श्रुणु शूलरत्नस्य । घातकीखण्डैरवते शतद्वारपुरे द्वे मित्रे ॥१०॥ एकोऽथ भवति प्रभवः सुमित्रनामा ततो भवेद्वितीयः । एकगुरुसन्निकर्षे शिक्षेते कलागमं सकलम् ॥११॥ जातो राज्याधिपतिस्तत्र सुमित्रो गुणैः प्रतिपूर्णः । प्रभवोऽपि तेन मित्र आत्मसदृशः कृतस्तदा ॥१२॥ अथान्यदा कदाचिदरण्यं तुरगेण प्रेषितः शीघ्रम् । गृहीतः सुमित्रराजा भिल्लैरनार्यशीलैः ॥१३।। म्लेच्छाधिपेन दत्ता वनमाला तत्र नरवरेन्द्रस्य । परिणीय निवृत्तः शतद्वारपुरमथ प्रविष्टः ॥१४॥ दृष्ट्वा मित्रभार्यां प्रभवो कुसुमायुधस्य बाणैः । विद्धोऽस्वस्थदेहः क्षणेनाकुलतां प्राप्तः ॥१५॥ दुःखभरपीडिताङ्गं प्रभवं दृष्ट्वा पृच्छति सुमित्रः । दुःखस्य समुत्पत्तिः कथय या तव प्रणश्यामि ।।१६।। अथ भणति तत्र प्रभवो वैद्यनरेन्द्राणां मित्रपुरुषाणाम् । आख्यानकश्च लोके एतेषां स्फूटं कथयितव्यम् ॥१७॥ नत्वा तस्य चरणयोः प्रभवः परिकथयति दु:खोत्पत्तिः । दृष्ट्वा तव महिलां स्वामिन् ! आकुलतां प्राप्तः ।।१८।। , श्रुत्वा वचनमेतद्भणति सुमित्रो निशि वनमालाम् । व्रजस्त्वं विश्वस्ता प्रभवसकाशं प्रसन्नमुखी ॥१९।। ग्रामसहस्रं सुन्दरि ! दामि तुभ्यं यदि करिष्यसि मित्रहितम् । यदि तं नेच्छसि भद्रे ! घोरं तव निग्रहं करिष्यामि ।।२०।। भणित्वा एवमेतद्वनमाला प्रस्थिता समप्रदोषे । प्राप्ता प्रभवागारं तेन च सा पृष्टा सहसा ॥२१॥ काऽसि त्वं वरसुन्दरि ! केन वा कार्येणागतात्र ? । तयाऽपि तस्य शिष्टं निजकं विवाहादिकम् ॥२२॥ वर्तते यावदुल्लापस्तयोरतावदागतस्तत्र राजा । प्रच्छन्नरुपधारी तिष्ठति भवनानन्तरनिलीनः ॥२३॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org