________________
१०७
दहमुखपुरिपवेसो-८/१०४-१३० आयण्णपूरिएहिं, सुणिसियबाणेहि धणुविमुक्केहि । चावं दुहा विरिक्कं, रहो य संचुण्णिओ नवरं ॥११८॥ अन्नं रहं विलग्गो, चावं घेत्तूण सरवरसएहिं । उक्कत्तइ दहवयणो, कवयं धणयस्स देहत्थं ॥११९॥ अह रावणेण समरे, जमदण्डसमेण भिण्डिमालेण । वच्छत्थलम्मि पहओ धणओ मुच्छं समणुपत्तो ॥१२०॥ दट्ठण तं विसन्नं, जक्खबले कलुणकन्दियपलावो । उप्पन्नो च्चिय सहसा, परितोसो रक्खसभडाणं ॥१२१॥ ताव य भिच्चेहि रणे, वेसमणो गेण्हिऊण हक्खुत्तो । सपुरिससेज्जारूढो, जक्खपुरं पाविओ सिग्धं ॥१२२॥ दहवयणो वि य समरे, भग्गं नाऊण जक्खसामन्तं । जयसद्दतूरकलयलरवेण अहिणन्दिओ सहसा ॥१२३॥
धणओ विजक्खराया.कयपरिकम्मो तिगिच्छएस पणो।
___ठविओ सब्भावरूवो, बल-विरियसमुज्जलसिरीओ ॥१२४॥ चिन्तेइ तो मणेणं, हा ! कटुं विसयरागमूढेणं । बहुवेयणावगाढं, दुक्खं चिय एरिसं पत्तं ॥१२५॥ कल्लाणबन्धवो मे, दसाणणो जेण रणमुहनिहेण । बद्धो वि मोइओ हं, सिग्धं गिहवासपासेसु ॥१२६॥ मुणियपरमत्थसारो, पव्वज्जं गेण्हिऊण वेसमणो । आराहियतवनियमो, पत्तो अयरामरं ठाणं ॥१२७॥ अह तस्स तं विचित्तं, उवणीयं धणयसन्तियं दिव्वं । मणिरयणपज्जलन्तं, पुष्फविमाणं मणभिरामं ॥१२८॥ वरमन्ति-सुय-पुरोहिय-बन्धवजणविविहपरियणाइण्णो । आरुहइ वरविमाणं, दसाणणो रिद्धिसंपन्नो ॥१२९॥ वरहार-कडय-कुण्डल-मउडालंकारभूसियसरीरो । ऊसियसियायवत्तो, चामरधुव्वन्तधयमालो ॥१३०॥
आकर्णपूरितैः सुनिशितबाणै र्धनुर्विमुक्तैः । चापं द्विधा विभक्तं रथश्च संचूर्णितो नवरम् ॥११८।। अन्यं रथं विलग्नश्चापं गृहीत्वा शरवरशतैः । उत्कर्त्यति दशवदनः कवचं धनदस्य देहस्थम् ॥११९॥ अथ रावणेन समरे यमदण्डसमेन भिन्दिमालेन । वक्षः स्थले प्रहतो धनदो मूर्छा समनुप्राप्तः ॥१२०|| दृष्ट्वा तं विषण्णं यक्षबले करुणकन्दितप्रलापः । उत्पन्न एव सहसा परितोषो राक्षसभटानाम् ॥१२१।। तावच्च भृत्यै रणे वैश्रमणो गृहीत्वोत्क्षिप्तः । सपुरुषशय्यारुढो यक्षपुरं प्रापितः शीघ्रम् ॥१२२॥ दशवदनोऽपि च समरे भग्नं ज्ञात्वा यक्षसामन्तम् । जयशब्दतूर्यकलकलरवेणाभिनन्दितः सहसा ॥१२३॥ धनदोऽपि यक्षराजा कृतपरिकर्मा चिकित्सकैः पुनः । स्थापितः स्वभावरुपो बल-वीर्य समुज्वलश्रियः ॥१२४।। चिन्तयति तदा मनसा हा ! कष्टं विषयरागमूढेन । बहुवेदनावगाढं दुःखमेवेदृशं प्राप्तम् ॥१२५।। कल्याणबन्धु मम दशाननो येन रणमुखनिभेन । बद्धोऽपि मोचितोऽहं शीघ्रं गृहवासपाशैः ॥१२६॥ मुणितपरमार्थसारः प्रवज्यां गृहीत्वा वैश्रमणः । आराधिततपोनियमः प्राप्तोऽजरामरं स्थानम् ॥१२७।। अथ तस्य तद्विचित्रमुपनीतं धनदसत्कं दिव्यम् । मणिरत्नप्रज्वलन्तं पुष्पकविमानं मनोभिरामम् ॥१२८॥ वरमन्त्रिसुतपुरोहितबन्धुजनविविधपरिजनाकीर्णः । आरोहति वरविमानं दशाननो ऋद्धिसंपन्नः ॥१२९।। वरहार-कटककुण्डलमुकुटालङ्कारभूषितशरीरः । उच्छ्रितश्वेतातपत्र श्चामरधुन्वद्ध्वजमालः ॥१३०।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org