________________
९२
पउमचरियं एस पिया ते पुत्तय ! गुरुयमणोरहसयाइँ चन्तेन्तो ।खणमवि न लभइ निइं, तीए कए सुन्दरपुरीए ॥१०३॥ जणणिवयणाइँ एवं, सोऊण दसाणणो कउच्छाहो । विज्जासु साहणत्थं, भीमारण्णं वणं पत्तो ॥१०४॥ कव्वायसत्तभीसण-निणायपडिसद्दमुक्कबुक्कारं । सुर-सिद्ध-किन्नरा वि य, जस्स य उवरिं न वच्चन्ति ॥१०५॥ आबद्धजडामउडा, उवरि सिहामणिमऊहकयसोहा । काऊण समाढत्ता, तिण्णि वि घोरं तवोकम्मं ॥१०६॥ अट्ठक्खरा य विज्जा, सिद्धा से लक्खजावपरिपुण्णा । नामेण सव्वकामा, सा वि य सिद्धा दिणद्धेणं ॥१०७॥ जविऊण समाढत्ता, विज्जा वि हु सोलसक्खरनिबद्धा । दहकोडिसहस्साइं, जीसे मन्ताण परिवारो ॥१०८॥ जम्बुद्दीवाहिवई, तइया जक्खो अणाढिओ नामं । जुवइसहस्सपरिवुडो, कीलणहेउं वणं पत्तो ॥१०९॥ ताणं तरतरुणीणं, कीलन्तीणं सहावलीलाए । तवनिच्चलदेहाणं, दिट्ठी पत्ता कुमाराणं ॥११०॥ गन्तूण ताण पासं, भणन्ति वरकमलकोमलमुहीओ । तव-नियमसोसिाण वि पेच्छ हला ! रूवलावण्णं ॥१११॥ एए पढमवयत्था, सेयम्बरधारिणो कुमारवरा । किं कारणं महन्तं, चरन्ति घोरं तवोकम्मं ॥११२॥ उडु लहुं चिय गच्छह, गेहं कि सोसिएण देहेण ? ।अम्हेहि समं भोगे, भुञ्जह पियदरिसणा तुब्भे ॥११३॥ मम्मण-महुरुल्लावं, एवं चिय ताण उल्लवन्तीणं । वयणं न भिन्दइ मणं, सत्थं व भडं ससन्नाहं ॥११४॥ देवीण मज्झयारे, दट्टण अणाढिओ भणइ एवं । भो भो ! तुम्हेत्थ ठिया, कयरं देवं विचिन्तेह ॥११५॥
एषः पिता तव पुत्र ! गुरुकमनोरथशतानि चिन्तयन् । क्षणमपि न लभते निद्रां तस्याः कृते सुन्दरपूर्याः ॥१०३।। जननीवचनान्येवं श्रुत्वा दशाननः कृतोत्साहः । विद्यानां साधनार्थं भीमारण्यं वनं प्राप्तः ॥१०४|| क्रव्यादसत्त्वभीषणनिनादप्रतिशब्दमुक्तगर्जारवम् । सुर-सिद्ध-किन्नरा अपि च यस्य चोपरि न गच्छन्ति ॥१०५।। आबद्धजटामुकुटा उपरि शिखामणिमयूखकृतशोभाः । कृत्वा समारब्धास्त्रयोऽपि घोरं तपः कर्म ॥१०६॥ अष्टाक्षरा च विद्या सिद्धा तस्य लक्षजापपरिपूर्णा । नाम्ना सर्वकामा साऽपि च सिद्धा दिनाङ्केण ॥१०७।। जपितुं समारब्धा विद्याऽपि खलु षोडषाक्षरनिबद्धा । दशकोटिसहस्राणि यस्यां मन्त्राणां परिवारः ॥१०८।। जम्बूद्वीपाधिपतिस्तदा यक्षोऽनादृतोनाम । युवति सहस्रपरिवृत्तः क्रीडनहेतुं वनं प्राप्तः ॥१०९।। तासां वरतरुणीनां क्रीडन्तीनां स्वभावलीलया। तपोनिश्चलदेहानां दृष्टिः प्राप्ता कुमाराणाम् ॥११०॥ गत्वा तेषां पार्वे भणन्ति वरकमलकोमलमुखाः । तपोनियमशोषितानामपि पश्य हला ! रुपलावण्यम् एते प्रथमवयस्थाः श्वेताम्बरधारिणः कुमारवराः । किं कारणं महच्चरन्ति घोरं तपः कर्म ॥११२॥ उत्तिष्ठत लघ्वेव गच्छत गृहं किं शोषितेन देहेन ? । अस्माभिः समं भोगान्भुत प्रियदर्शना यूयम् ॥११३॥ मदनमधुरोल्लापमेवमेव तासामुल्लपन्तीनाम् । वचनं न भिन्दति मनः शस्त्रमिव भटं ससन्नाहम् ॥११४|| देवीनां मध्ये दृष्ट्वाऽऽनादृतो भणत्येवम् । भो भो ! यूयमत्रस्थिताः कतरं देवं विचिन्तयथ ॥११५॥
१.क्रव्याद।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org