________________
७५
रक्खस-वाणरपव्वज्जाविहाणाहियारो-६/११७-१४२ जह रण्णम्मि पविट्ठो, मूढो परिभमइ मग्गनासम्मि । तह धम्मेण विरहिओ, हिण्डइ जीवो वि संसारे ॥१३०॥ ते दो वि तग्गयमणा, मुणिवरमुहकमलनिग्गयं धम्मं । सुणिऊण निययचरियं, पुच्छन्ति पुणो पयत्तेणं ॥१३१॥ जइ एव धम्मरहिओ, जीवो परिभमइ दीहसंसारे। तो कह पुणाइ अम्हे, एत्थं परिहिण्डिया भयवं ! ॥१३२॥ अह साहिउं पवत्तो, पुव्वभवं मुणिवरो महुरभासी । सुणह इओ एगमणा, कहेमि तुझं समासेणं ॥१३३॥ एयम्मि परिभमन्ता, पुरिसा संसारमण्डले घोरे। घाऐंन्ति एक्कमेक्कं, दोण्णि वि मोहाणुभावेणं ॥१३४॥ अह कम्मनिज्जराए, दोण्णि वि पुरिसा तओ समुप्पन्ना । वाणारसीए एक्को, जाओ वाहो महापावो ॥१३५॥ सावत्थीनयरीए, बीओ वि हु मन्तिनन्दणो जाओ।दत्तो नामेण तओ, पव्वइओ जायसंवेगो ॥१३६॥ विहरन्तो संपत्तो, कासिपुरे सुत्थिए वरुज्जाणे । तसपाण-जन्तुरहिए, तत्थ ठिओ झाणजोएणं ॥१३७॥ लोगो वि पूयणत्थं, सम्मद्दिट्ठी समागओ तस्स । भावेण विणयपणओ, पयाहिणं कुणइ परितुट्ठो ॥१३८॥ झाणोवओगजुत्तं, वाहो दट्टण फरुसवयणेहि । सत्थेसु कुणइ तिव्वं, विहीसियं तस्स दुट्ठप्पा ॥१३९॥ । अवसउणो य अलज्जो, पारद्वीफन्दियस्स जाओ मे । तिव्वं अमङ्गलं चिय, धणु पहरन्तो समुग्गिरइ ॥१४०॥ साहू वि झाणजुत्तो, एवं चिन्तेइ तत्थ हियएणं । चूरेमि पावकम्मं मुट्ठिपहाराहयं सन्तं ॥१४१॥ तव-संजमेण पुव्वं, लन्तगजोगं समज्जियं कम्मं । झाणस्सकलुसयाए, जोइसवासित्तणं पत्तं ॥१४२॥
यथा रण्ये प्रविष्टो मूढ: परिभ्रमति मार्गनाशे । तथा धर्मेण विरहितोऽटति जीवोऽपि संसारे ॥१३०।। तौ द्वावपि तद्गतमनसौ मुनिवरमुखकमलनिर्गतं धर्मम् । श्रुत्वा निजचरित्रं पृच्छतः पुनः प्रयत्नेन ॥१३१॥ यद्येवं धर्मरहितो जीव: परिभ्रमति दीर्घसंसारे । तदा कथं पुनरावामत्र पर्यटन्तौ भगवन् ! ॥१३२।। अथ कथयितुं प्रवृत्तः पूर्वभवं मुनिवरो मधुरभाषी । श्रुणुतमित एकाग्रमनसौ कथयामि वां समासेन ॥१३३।। एतस्मिन्परिभ्रमन्तौ पुरुषौ संसारमण्डले घोरे । हत एकमेकं द्वावपि मोहानुभावेन ॥१३४।। अथ कर्मनिर्जराया द्वावपि पुरुषौ ततः समुत्पन्नौ । वाराणस्यामेको जातो व्याधो महापापः ॥१३५।। श्रावस्तीनगर्यां द्वितीयोऽपि हु मन्त्रिनन्दनो जातः । दत्तो नाम्ना ततः प्रव्रजितो जातसंवेगः ॥१३६॥ विहरन्संप्राप्तः काशीपुरे सुस्थिते वरोद्याने । त्रसप्राण-जन्तुरहिते तत्र स्थितो ध्यानयोगेन ॥१३७|| लोकोऽपि पूजनार्थं सम्यग्दृष्टिः समागतस्तस्य । भावेन विनयप्रणतः प्रदक्षिणां करोति परितुष्टः ॥१३८।। ध्यानोपयोगयुक्तं व्याधो दृष्ट्वा परुषवचनैः । शस्त्रैः करोति तीव्र बिभिषिकं तस्य दुष्टात्मा ॥१३९॥ अपशकुनश्चालज्जः पापद्धिस्पन्दितस्य जातो मम । तीव्रममङ्गलमेव धनुः प्रहरन्समुद्दगीरति ॥१४०॥ साधुरपि ध्यानयुक्त एवं चिन्तयति तत्र हृदयेन । पश्यामि पापकर्म मुष्टिप्रहाराहतं सत् ॥१४१।। तपः संयमाभ्यां पूर्वं लान्तकयोग्यं समर्जितं कर्म । ध्यानस्यकालुष्याज् ज्योतिर्वासीत्वं प्राप्तम् ॥१४२॥
१. ठाण जोएणं-प्रत्य० । २. भय प्रदर्शनम् ।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org