________________
६८
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः १ शब्दः समप्रविभागवचनः किञ्चिन्न्यूनामिधायित्वात् स पुल्लिङ्गः, उपगतोऽर्धः उपाधः, किञ्चिन्यून इति प्रादिसमासः । नानाजीवानिति । सर्वजीवानाश्रित्य नास्त्यन्तरं, विदेहादिषु सर्वकालं समवस्थानादिति । क्षायिकस्य त्वनपगमानास्त्यन्तरम् । गतमन्तरद्वारम् ॥ द्वारान्तराभिधित्सयाऽऽह___ भा०-भावः। सम्यग्दर्शनमौपशमिकादीनां तमो भावः । उच्यतेऔदयिकपारिणामिकवर्ज त्रिषु भावेषु भवति ॥
टी०-भाव इति । येयं रुचिः जीवस्य जिनवचनश्रद्धायिनी सा कस्मिन् भावे औपशमिकादीनां समवतरतीति प्रश्नयति-सम्यग्दर्शनमित्यादिना। सम्यग्दर्शनमित्यविशिष्टां रुचिं क्षयादिरूपां त्रिविधामपि जिज्ञासते-क कैते इति, (कैतदिति ?) तथा प्रतिवचनमपि भवि ध्यति-त्रिषु भावष्विति । औपशमिकादीनामुक्तलक्षणादीनांकतमो भावः-कतमावस्थेति यावत, मृरिस्तु हेयभावनिरसिसिषया आदेयं त्रिष्वित्यनेन कथयति, औदयिक-गतिकषायादिरूपं पारिणामिकं च भव्यत्वादिलक्षणं विहाय येऽन्ये त्रयः क्षायिकादयस्तेषु भावेषु भवति, औदयिकपारिणामिकयोर्गत्यादिभव्यत्वाद्यवधारणान्नानयोः समस्ति, अनादित्वाच, एष इति सूच्यते त्रिषु भवति, नौदयिकपारिणामिकयोरिति ॥ द्वारान्तरं स्पृशति
भा०—अल्पबहुत्वम् । अत्राह-सम्यग्दर्शनानां त्रिषु भावेषु वर्तमानानां किं तुल्यसंख्यात्वमाहोस्विदल्पबहुत्वमस्तीति । उच्यते
टी--अल्पबहुत्वमित्यनेन । अत्रैतस्मिस्त्रिषु भावेष्विति व्याख्याते । आहान्यः-एषां क्षायिकादीनां सम्यग्दर्शनानां त्रिषु क्षायिकादिषु परिणामेषु वर्तमानानां किं तुल्यसङ्ख्यत्वमुत नेति, आश्रयभेदेन चाल्पबहुत्वचिन्तेहाश्रिता, अल्पबहुत्वमितिः अल्पबहुभावः । किञ्चिदल्पमत्रास्ति किश्चित् तु बहिति कथं भावनीयम् । उच्यते
___ भा०–सर्वस्तोकमौपशमिकम् । ततःक्षायिकमसङख्येयगुणम् । ततोऽपि क्षायोपशमिकमसङ्ख्येयगुणम् । सम्यग्दृष्टयस्त्वनन्तगुणा इति। एवं सर्वभावानां नामादिभिासं कृत्वा प्रमाणादिभिरभिगमः कार्यः । उक्तं सम्यग्दर्शनम् । ज्ञानं वक्ष्यामः ॥ ८॥
टी०- सर्वस्तोकमौपशमिकम्, यत ईदृशी परिणतिं श्रेण्यारोहादिस्वभावां न बहवः सम्प्राप्नुवन्तीत्यागमात्, ततः क्षायिकमसंख्येयगुणम् , ततः औपशमिकात् क्षायिकमिति च। अत्राय विशेषः प्रेक्ष्यः-छद्मस्थानां श्रेणिकादीनां यत् क्षायिकं तद् गृह्यते, अपायसद्भावात्, छद्मस्थवर्तिनश्च औपशमिकस्यावधितयोपात्तत्वात् तत इत्यनेनावधिमतापि तादृशेन भवितव्यम् । तत औपशमिकात् क्षायिकं छद्मस्थस्वामिकमसङ्ख्येयगुणमिति, योऽसावौपशमिको राशिः सोऽसङ्ख्येयेन राशिना गुण्यते, औपशमिकाद् बहुतरमितियावत् । ततोऽपि क्षायिकात् क्षायोपशमिकं भवत्यसङ्ख्येयगुणं, सर्वगतिषु बहुस्वाम्याधारत्वात् । असङ्ख्येय
१'भावानां ' इत्यधिको घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org