________________
सूत्रं ८ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
भा०- कालः । सम्यग्दर्शनं कियन्तं कालमिति । अत्रोच्यते तदेकजीवेन नानाजीवैश्च परीक्ष्यम् । तद्यथा - एकजीवं प्रति जघन्येनान्तर्मुहूर्तम्, उत्कृष्टेन षट्षष्टिः सागरोपमाणि साधिकानि, नानाजीवान् प्रतेि सर्वाद्धा ||
टी. - काल इति । यदेतत् पूर्वकैर्द्वारैर्निरूपितं तत् सम्यग्दर्शनं कियन्तं कालं भवतीति प्रश्नयति ॥ ननु च स्थितिद्वारेऽप्येतदेव पृष्टमुक्तं च, किमर्थं च पुनः पिष्टपेषणं क्रियते इति ? | उच्यते - न कालः स्थितिमन्तरेण कश्चिदस्तीत्यस्यार्थस्य ख्यापनार्थ, तथा च वर्तमानादीन्येव काललिङ्गानि पठन्ति । अथवा एकजीवाश्रयणेन नानाजीवसमाश्रयणेन चास्ति स्थितिद्वारे साक्षाद् विधानमिति, अतो युज्यते प्रश्नः । तथा च " पुव्वभणियं तु जं भण्णएं " (निशीथ - भाष्ये) इत्यादि । अतस्तत् सम्यग्दर्शन मे कजीवाङ्गीकरणेन सर्वजीवाङ्गीकरणेन च परीक्ष्यम् । एतदुक्तं भवति - एकेन प्राप्तं तत् कियन्तं कालमनुपालयत इति, नानाजीवैश्च कियन्तं कालं धार्यत इति परीक्ष्यम् । एकजीवं प्रतीत्यादि, पूर्वभावित एव ग्रन्थ इति, स्थितिद्वारे नानाजीवान् प्रति सर्वाद्वा सर्वकालं, महाविदेहादिक्षेत्रमाश्रित्याव्यवच्छेदांत् । इयं तु स्थितिः क्षायोपशमिकस्य चिन्तिता, औपशमिकस्य तु यथासम्भवं अन्तर्मुहूर्तप्रमाणेति, क्षायिकस्य तु सर्वदावस्थानम् ॥ अतोऽनन्तरमन्तरद्वारं स्पृशति -
भा०—अन्तरम् । सम्यग्दर्शनस्य को विरहकालः १ । एकजीवं प्रति जघन्येनान्तर्मुहूर्तम् उत्कृष्टेन उपार्धपुद्गलपरिवर्तः । नानाजीवान् प्रति नास्त्यन्तरम् ॥
६७
"
टी० - अन्तरमित्यनेन सम्यग्दर्शनं प्राप्य पुनश्वोज्झित्वा मिथ्यात्वदलिकोदयात् पुनः कियता कालेन लप्स्यत इति पृच्छति - सम्यग्दर्शनस्य को विरहकाल इति ? । सम्यग्दर्शनं प्राप्य पुनश्रोज्झित्वा पुनर्यावन्न सम्यग्दर्शनमासादयति स विरहकालः - सम्यग्दर्शनेन शून्यः कालः कियानिति, औपशमिकक्षायोपशमिके निश्चित्य निर्णयवाक्यं प्रवृत्तम् । एकजीवं प्रतीत्यादि । एको जन्तुरौपशमिकं क्षायोपशमिकं वा प्राप्य उज्झित्वा पुनः कश्चिन् मुहूर्त - स्यान्तर (रेव) लभते, कश्चित् तु अनन्तेन कालेन लभते से चान्तरकाल एवमाख्यायते, उत्कृष्टेनोपार्थपुद्गलपरावर्तः, पुद्गलपरावर्तो नाम यदा जगति यावन्तः परमाणवस्ते औदारिकादितया सर्वे परिभुक्ता भवन्ति, स पुद्गलपरावर्तः औदारिकवैक्रियतैजसभाषाप्रापुलपरावर्त - स्यार्थः । णापानमनःकर्मभेदात् सप्तधा, एतत्समुदायस्यार्धं गृह्यते किञ्चिदूनम् । एतत् कथं प्रतिपादयितुं शक्यत इति चेत्, उपार्धपुद्गलपरावर्त इत्यनेनोच्यते 'समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि वर्तन्त' इति न्यायात् । अयं चार्ध -
१ 'परीक्ष्यन्ते' इति क - ख- पाठः ।
२ पूर्वभणितं तु यद् भण्यते ।
३ ' व्यवच्छेदास्ता यत्' इति स्त्र-ग-पाठः । ४ 'स वानन्तरं काल' इति क-त्र-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org