________________
६९
सूत्र ९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् गुणमिति च योऽसौ क्षायिकराशिः सोऽसङ्ख्येन गुण्यते,अतः क्षायिका बहुतरमास्त इतियावत् । यत तर्हि क्षायिकं कैवल्याधारं तत कियत । उच्यते सर्वकेवलिनामानन्त्यादनन्तगुणं, कैवल्याधारमेतद् दृश्यमिति, अतः सम्यग्दृष्टयस्त्वनन्ता इति। केवलिनोऽनन्ता इत्यर्थः। ततस्तद्व|प्यनन्तमेव । इति द्वारपरिसमाप्तिसूचकः। अथ किं सम्यग्दर्शनस्यैव निर्देशादिसदादिभिद्वारैरधिगमः क्रियते उत ज्ञानादीनामपीति । उच्यते-ज्ञानादीनामपि, किन्तु एकत्र सम्यगदर्शने योजना कृताऽन्यत्राप्येवं दृश्येत्यतिदिशति-एवं सर्वभावानाम् । एवमिति यथा सम्यग्दर्शनस्य तथा सर्वभावानां ज्ञानादीनां नामस्थापनादिभी रचनां कृत्वा प्रमाणनयनिर्देशादिसदादिभिः परीक्ष्याभिगमः कार्य इति । यत् प्रस्तुतं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (१-१) इति तत्र यत् सम्यग्दर्शने विचार्य तदभिहितम् , तदभिधानाच परिसमापितं सम्यग्दर्शनमित्येतदाह-उक्तं सम्यग्दर्शनम् । द्वितीयावयवव्याचिख्यासाप्रस्तावप्रदर्शनायाह-ज्ञानं वक्ष्यामः ॥८॥
कीदृक् तदिति चेदुच्यतेसूत्रम्-मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥ १-९॥
टी०–मतिश्च श्रुतं चावधिश्च मनःपर्यायश्च केवलं च मतिश्रुतावधिमनःपर्यायकेवलानि, ज्ञानमिति चानेन पञ्चाप्येतानि एकज्ञानमिति नैवं ग्राह्यम् यथा सम्यग्दर्शनादीनि
. त्रीण्यपि एको मोक्षमार्ग इति, किन्तु ऐकैकमत्र ज्ञानमिति । यद्येवं ज्ञानमित्येकवचने ज्ञानानीतिभवितव्यम्, ज्ञानबहुत्वात् उच्यते,-सत्यमेव, प्रतिज्ञारूपं फलम्
तु प्रतिवचनं भवतीतिकृत्वा एकवचनं कृतं, प्रतिज्ञातं चानेन ज्ञानं वक्ष्याम इति, अतस्तदनुरोधेनैकवचनं चकार आचार्यः । एकैकस्य ज्ञानतां प्रख्यापयन्नाह
भा०–मतिज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानमित्येतत् मूल विधानतः पञ्चविधं ज्ञानम् । प्रभेदास्त्वस्य पुरस्ताद् वक्ष्यन्ते ॥९॥ टी-मतिज्ञानं श्रुतज्ञानमित्यादि। मननं मतिः परिच्छेद इत्यर्थः। शेषकारके
. ध्वपि यथासम्भवं ज्ञेया, ज्ञप्तिान वस्तुस्वरूपावधारणमित्यर्थः। मतिमतिज्ञानादीनां
| ज्ञानं, मतेर्ज्ञानमिति समासो नैव कार्यः, मतेर्ज्ञानं किं ? येन सा गृह्यते,
सा च गृह्यते केवलादिना, ततश्चोत्तरपदार्थप्राधान्यात् तत्पुरुषस्य तन्माऋग्रहणं स्यात, नत्विन्द्रियानिन्द्रियनिमित्तमिति, तस्मात् ज्ञानशब्दो व्यभिचारी सामान्यज्ञानवाचकः सन्निन्द्रियानिन्द्रियनिमित्तोपजातया भत्या समानाधिकरणतया विशेष्यते, मतिश्च सा ज्ञानं च मतिज्ञानम् । तच्च श्रोत्रेन्द्रियव्यतिरिक्तं चक्षुरादीन्द्रियानक्षरोपलब्धिर्या तन्म तिज्ञानम् । श्रुतज्ञानमिति । श्रूयते तदिति, अस्मिन् पक्षे शब्दमानं गृह्यते, श्रुतिः श्रवणमित्यस्मिन् पक्षे ज्ञानविशेष उच्यते, स एव च ग्राह्यः श्रुतमित्यनेन। कीदृशः स इति चेत् ?
१ 'बहुतममास्त' इति क-ख-पाठः । २ 'ज्ञायते ज्ञानं' इति क-व-पाठः ।
व्याख्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org