________________
सूत्र ८]
स्वोपज्ञमाप्य टीकालङ्कृतम् तु भाज्यम् । तद्यथा-गतीन्द्रियकाययोगकषायवेदलेल्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगदारेषु यथासंभवं सतप्ररूपणा कर्तव्या॥
__टी-सत् सङ्ख्या क्षेत्रमित्यादि युक्तमेवैतद् द्वारमिति । इतिशब्द इयत्तायाम् । इयद्भिरेव येज्ये तेऽत्रैवान्तर्भवन्ति, एतैय सूत्रोक्तैः । एतदेव विशेषयति-सद्भूतपद्प्ररूपणादिभिः, सदभूतस्य–विद्यमानार्थस्य सम्यग्दर्शनपदस्य प्ररूपणा-तत्वकथनं सा आदिर्येषां तानि सद्भूतपदप्ररूपणादीनि तैरिति विवेकेन फलं दर्शयति-अष्टाभिरिति । तेषां च व्याख्यानाङ्गतां कथयति-अनुयोगद्वारैरिति । सर्वभावानाम् इत्यनेनैषां व्यापितां कथयति-सदादीनां विकल्पश इत्यादि व्याख्यातमेव । कथामिति चेदित्यनेन परामिप्रायमाशङ्कते-केन प्रकारेण एभिर्विस्तरेणाधिगमः क्रियत इत्येवं मन्येथाः? उच्यते-यथा क्रियते विस्तराधिगम इति, सदित्यनेनावद्वार परामृशति, कथं चैतस्य द्वारस्योत्थानं ? यथा शङ्कते परः-किमस्ति नास्तीत्येवम्, अन्यथा सत्त्वे निझते अयुक्तमेवैतत् कथनमिति, अत आशङ्कावाक्यं दर्शयति-सम्यग्दर्शनं किमस्ति नास्तीति । अस्माचार्य संशयः, यतः शब्दोऽसत्यपि बाह्यर्थे शशविषाणादिकः प्रवर्तमानो दृष्टः, सति च बहिर
ऽर्थे घटादौ दृष्टो घटादिः, अतः किं सत्यर्थे उतासति सम्यग्दर्शनशब्दः प्रवृत्तो बहिरर्थ इति प्रश्नयति ।मरिराह-अस्तीत्युच्यते । विद्यते सम्यग्दर्शनशब्दवाच्योर्थो घटादिशब्दवाच्यवत् । कथं चानेन निरचायि, आप्तोपदेशात् प्रशमसंवेगनिर्वेदाधनुमानाञ्च । इतरेणाव्यक्तामिधानवत् प्रतिपद्य पुनश्चोद्यते-क चैतदिति । गुणो झयं तेन च परतन्त्रत्वात् साधिकरणेन भवितव्यम् रसेनेवाणुव्यापिनेत्येतदाशङ्कय परामिप्रायमाचार्य आह-क्वास्तीति चेत् मन्यसे, उच्यते-द्वये पदार्था:-जीवा अजीवाश्च । तत्राजीवेषु तावन्नास्ति, निश्चयावलम्बनेन धर्माधर्माकाशपुद्गलेषु, यतो ज्ञानाख्यश्चेतनावत्सु समवेतो गुणः स कथमन्यधर्मः सनन्यत्र वर्तते । यथोक्तं कस्येति स्वामित्वचिन्तायां अजीवस्य प्रतिमादेः सम्यग्दर्शनमिति तदुपचारात, नत्वसो मुख्यः कल्पः । इह तु मुख्यां वृत्तिमशिश्रियद वाचकमुख्यः, अजीवेषु तावदुक्तक्रमेण नास्तीति । अथ जीवेषु का वार्तेत्यत आह-जीवेषु तु भाज्यम् । तुशब्द एवकारार्थे भाज्यमेव, नावश्यम्भावि । सर्वेषु भजनां च कथयन्ति
.. तद्यथा-गतीन्द्रियेत्यादिना। गत्यादीनि चान्यत्रावश्यकादौ प्रपञ्चेनोक्तानि, अशून्यार्थ तु किश्चिद् दय॑ते-गत्यादिषु पूर्व प्रतिपत्राः प्रतिपद्यमानाथ सम्यक्त्वं चिन्त्यन्ते । तत्र नारकप्रभृतिषु गतिषु चतसृष्वपि पूर्व प्रतिपनाः प्रतिपद्यमानाश्च जीवाः सन्ति, नरकगतीक्षायिकक्षायोपशमिके स्याता, तिर्यग्गतावप्येते, मनुष्यगतौ त्रीण्यपि क्षायिकादीनि सन्ति, देवगतौ
'प्रकपणादीनि ' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org