________________
तस्वार्थाधिगमसूत्रम्
[अध्यायः १ भ्युपगतम्, तदभ्युपगमे च ज्ञानत्वं सम्यग्दर्शनस्य सुप्रतिपाद्यम् । तथा दर्शनमोहनीयस्येति ब्रुवता इदमभ्युपगतम्-दर्शनमोहनीयस्य क्षयादिषु सत्सु तत्प्रादुर्भावो न पुनदर्शनमोहस्तदावरणमित्येतद् भावितमेव पुरस्तात् । ग्रन्थकारस्याप्ययमेवाभिप्रायः पुनरुद्घटित इति । तद्यथा इति। एभ्यो हेतुभ्यो यत् कार्यमुपजातं तत् प्रदश्यते-क्षयसम्यग्दर्शन मिति । मत्याधावरणीयदर्शनमोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते, तेषामेवोपशमाज्जातं उपशमसम्यग्दर्शनमुच्यते, तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमभिदधति प्रवचनाभिज्ञाः । एषां च क्षयादीनां प्राग्भावना कृतैव, इह केवलं तदावरणीयेषु लगनीया इति । एवं क्षयादिहेतुकं यत् कार्यमुपाजनि तत् प्रदाधुना एतत् पृच्छयते-किमेकरूपाण्येवैतानि उतास्ति कश्चित् प्रकर्ष एषामिति ? । उच्यते
___ अत्र चेत्यादि । अत्रेति एषु क्षयादिसम्यग्दर्शनेषु, यथा कार्यभेदोऽभ्युपगतः एवं प्रकर्षभेदोऽभ्युपगन्तव्य इति कथयत्येतच्चशब्दः। तं च प्रकर्ष दर्शयन्नाह-औपशमिकेत्यादि। पूर्व च क्षयसम्यग्दर्शनं प्रधानत्वादुपन्यस्येदानी प्रकर्षस्य निदर्यत्वादन्ते तदुपन्यस्यति । उपशमेन-उदयविधातरूपेण निर्वृत्तमौपशमिकं, क्षयेण-उपरिशाटरूपेणोपशमेन च निर्वृत्तं क्षायोपशमिकम्, क्षयेण निर्वृत्तं क्षायिकम्, अत एषामौपशमिकादीनामिमां रचनामाश्रित्य परस्य परस्य विशुद्धिप्रकर्षो निर्मलता स्वच्छता तत्त्वपरिच्छेदितेत्यर्थः । औपशमिकं हि सम्यग्दर्शनं सर्वमलीमसम्, अल्पकालत्वात्, भूयश्च मिथ्यात्वगमनात्, यतोऽन्तर्मुहर्तमानं भवेत्, यदि च कालं तत्रस्थो न करोति एवं सति मिथ्यादर्शनमेव प्रतिपद्यत इत्यागमः । तस्साच्चौपशमिकतः क्षायोपशमिकसम्यग्दर्शनं विशुद्धतरम्, बहुकालावस्थायित्वात्, यत उत्कृष्टेन षट्षष्टिः सागरोपमाणि साधिकानि तदुक्तम्, अत एव च तस्य वस्तुपरिच्छेदे स्पष्टं ग्रहणसामर्थ्यमनुमातव्यमागमाच्चास्मात् , ततश्च क्षायिकं विशुद्धतमम्, सवेकालावस्थायित्वात् स्पष्टवस्तुपरिच्छेदाच्चेति ॥७॥
किं चान्यदित्युत्तरसूत्रसम्बन्धवाक्यं, न केवलमेभिरेवैमिश्च निश्चयः कार्य इति, कैरिति चेदित्यत आहसूत्रम्-सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥१-८॥
टी०-सत्सङ्ख्येत्यादि । सच्छब्दं च सङ्ख्यादि विशेषणं कश्चिदाश्रयेदित्यतो निराकरणार्थ विविच्य दर्शयति
भा०-सत्, सङ्ख्या, क्षेत्रं, स्पर्शनं, कालः, अन्तरं, भावः, अल्पबहुत्वमित्येतैश्च सद्भूतपदप्ररूपणादिभिरष्टाभिरनुयोगद्वारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति । कथमिति चेत्, उच्यते-सत्, सम्यग्दर्शनं किमस्ति नास्ति ? अस्तीत्युच्यते । वास्तीति चेत्, उच्यते-अजीवेषु तावन्नास्ति, जीवेषु
'तत्त्वानां ' इत्यधिकः क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org