________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः १ क्षायिकक्षायोपशमिके भवेताम् । इन्द्रियाणि सामान्येनाङ्गीकृत्य सन्ति पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च विकल्पशः, एकेन्द्रियेषु न पूर्वप्रतिपन्नाः न प्रतिपद्यमानकाः। द्वित्रिचतुरिन्द्रियेष्वसंज्ञिपञ्चेन्द्रियेषु च पूर्वप्रतिपन्ना भाज्याः सास्वादनसम्यक्त्वं प्रति प्रतिपद्यमानास्तु न सन्त्येव, संज्ञिपञ्चेन्द्रियेषु द्वयमप्यस्ति । कायान् पृथिव्यादीनाश्रित्य सामान्येन द्वयमप्यस्ति, विशेषेण धरणिजलानलानिलतरुषु द्वयं न सम्भवत्येव, द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियेषु पूर्वप्रतिपन्नाः स्युः नाधुना प्रतिपद्यन्ते, संज्ञिपञ्चेन्द्रियत्रसकाये द्वयमपि स्यात् । योगे मनोवाक्कायेषु सामान्येन द्वयमपि, काययोगभाजां पृथिव्यादीनां तरुपर्यन्तानां न द्वयं, कायवाग्योगयुजां द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां पूर्वप्रतिपन्नाः स्युः न प्रतिपद्यन्त इति । मनोवाकाययोगानां द्वयम् । अनन्तानुवन्धिनामुदये न द्वयं, शेषकषायोदये द्वयम् । वेदत्रयसमन्वितानां द्वयमस्ति सामान्येन; विशेषेणापि स्त्रीवेदे द्वयं पुरुषवेदे द्वयं, नपुंसकवेद एकेन्द्रियाणां न द्वयं, विकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियपर्यवसानानां पूर्वप्रतिपन्नाः केचित् सन्ति, न प्रतिपद्यमानकाः, संक्षिपञ्चेन्द्रियनपुंसकेषु द्वयं, नारकतियङ्मनुष्यामरेषु लेश्यासु उपारेतनीषु द्वयम्, आद्यासु प्रतिपन्नाः स्युः न तु प्रतिपद्यन्ते । किं सम्यग्दृष्टिः प्रतिपद्यते मिथ्यादृष्टिवा ? । अत्र निश्चयनयस्य सम्यग्दृष्टिः प्रतिपद्यते, अभूतं नोत्पद्यत इति शशविषाणादिवत् । व्यवहारस्य मिथ्यादृष्टिः प्रतिपद्यते, प्रतिपत्तेरभूतभावविषयत्वात्, असत् कारणे कार्यमिति दर्शनात् । एवं ज्ञानी निश्चयस्याज्ञानी व्यवहारनयस्य । चक्षुर्दशनिषु द्वयम् एका(चतुर)क्षाद्यसंज्ञिषु पूर्वप्रतिपन्नाः स्युन तु प्रतिपद्यमानकाः, संज्ञिपञ्चेन्द्रियचक्षुर्दर्शनिषु द्वयम्, (अचक्षुर्दर्शनिषु द्वयम् ), अचक्षुर्दर्शनिषु पृथिव्यादिषु पञ्चसु द्वयं नास्ति, शेषेषु द्वित्रिचतुरसंज्ञिप्वचक्षुर्दर्शनिषु पूर्वप्रतिपन्नाः स्युने तु प्रतिपद्यन्ते, संज्ञिपञ्चेन्द्रियाचक्षुदेशनिषु द्वयम् । चारित्री पूर्वप्रतिपन्न एव, अचारित्रः पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च स्यात् । आहारकेषु द्वयम्, अनाहारकः पूर्वप्रतिपन्नः न तु प्रतिपद्यमानकोऽन्तरगतौ सम्भविता । उपयोग इति, साकारोपयुक्तः प्रतिपद्यते उत अनाकारोपयुक्त इति, उच्यते-साकारोपयुक्तः प्रतिपद्यते पूर्वप्रतिपन्नश्च, अनाकारोपयुक्तस्तु पूर्वप्रतिपन्नः स्यात् नतु प्रतिपद्यमानकः, यतः “ सर्वाः किल लब्धयः साकारोपयोगोपयुक्तस्य भवन्ति" (प्रज्ञापनासूत्रे उपयोगपदे ) पारमर्षवचनप्रामाण्यात् । एतेषु त्रयोदशस्वनुयोगद्वारेषु व्याख्यानाङ्गेषु यथासम्भवमिति यत्र सम्भवति यत्र न सम्भवति यथा वा क्षायिकादि सम्यग्दर्शनं यत्र सम्भवति तथा वाच्यं, सद्भूतपदार्थस्य सम्यग्दर्शनपदस्य प्ररूपणा व्याख्या कर्तव्या उन्नया । भाषकपरित्तादयस्तु नादृता भाष्यकारेण, प्रायस्तेषामुपात्तानुयोगद्वारान्तर्गतेरिति, यतो भाषकः पञ्चेन्द्रियेष्ववतरति, परित्तोऽपि कायेषु पर्याप्तस्तेष्वेव, सूक्ष्मसंज्ञिभवचरमाश्च तेष्वेव, अतो नादृता इति ॥ द्वितीयद्वारमुपन्यस्यन्नाह
१ धनुचिहगतो भागः ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org