________________
५३
सूत्रं ७ ]
स्वोपशमाष्य-टीकालङ्कृतम् वयणिजसव्वो" इत्यादि । उच्यते-प्रमाणनयानामयं भेदः, प्रमाण समस्तवस्तुखरूपपरिच्छेदात्मकं मत्यादि नयास्तु एकांशावलम्बिन इत्यतो भिन्नविषयता, प्रत्यक्षपरोक्षवत् । एतदुक्तं भवति-सर्वनयांशावलम्बि ज्ञानं प्रमाणम् , यत् तु ज्ञानमनेकधर्मात्मकं सद्वस्तु एकधर्मावधारणेनावच्छिनत्येवमात्मकमेवैतदिति तन्नया इति कथ्यन्ते, अतश्च प्रमाणं सम्यग्ज्ञानं, नयास्तु मिथ्याज्ञानम्, यत आह-" एवं सब्वेवि नया मिच्छोदिट्टी" इत्यादि । एवं च कृत्वा प्रमाणशब्दस्याभ्यर्हितत्वात् मूत्रे पूर्वनिपात इति न चोद्यावकाशः ॥ अपरे वर्णयन्तिपरस्परापेक्षा नैगमादयो नया इति व्यपदिश्यन्ते अध्यवसायाः, तैः परस्परापेक्षैर्यज्ज्ञानं समस्तवस्तुस्वरूपावलम्बन जन्यते तदनवगतवस्तुपरिच्छेदाभ्युपायत्वात् प्रमाणम् । ये पुननैंगमादयो निरपेक्षाः परस्परेण ते नयाभासा इति ॥६॥
किश्चान्यदित्यनेनोत्तरसूत्रं सम्बन्धयति, नैतावतैव विस्तराधिगमस्तत्त्वानां, यतोऽन्यदपि विस्तराधिगतौ कारणमस्ति, किं तत् ? निर्देशादि । के पुनः निर्देशादय इत्यत आहसूत्रम्-निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ १-७॥
टी०-निर्देशस्वामित्वेत्यादि। न तावनिर्देशादीन् व्याचष्टे सम्बन्धवाक्यमेव समर्थयते
भा०-एभिश्च निर्देशादिभिः षभिरनुयोगदारैः सर्वेषां भावानां जीवादीनां तत्त्वानां विकल्पशा विस्तरेणाधिगमो भवति ॥ टी-एभिश्चेत्यादिना। एभिः, चशब्दात् प्रमाणनयसदादिमिश्च । एभिश्चेति
. सामान्यशब्दनिर्देशेन विशेषावगतिरस्ति, अतो विशेषार्थमाह-निर्देशानिर्देशादीनां
दिभिः । आदिशब्देन निर्देशे सति नेयत्तापरिज्ञानमस्तीति
समासे चाव्यक्ताभिधानं प्रसिद्धं न सूत्रादपीयत्ता सम्भाव्येत अतः षभिरिति । अस्मिन् किमेतानि व्याख्याद्वाराणि नेति या शङ्का तनिरसनायाह-अनुयोगद्वारः, व्याख्याङ्गैरित्यर्थः । एषां च व्यापिता अस्ति नास्ति इत्याशङ्काव्युदासायाह-सर्वेषामिति । उक्तेऽपि चैतस्मिन्नभावोऽपि सर्वशब्देनोपात्तः तन्निराचिकीर्षयाऽऽह-भावानामिति । अभावे हि व्यर्थत्वात् प्रयासस्य न तद्विषयमेतदिति कथयति । भावा अप्यन्यमताभिमताः सन्त्यतत्त्वरूपा इत्यतो द्वयमुपादत्ते-जीवादीनां तत्त्वानामि. त्येतत् । ते च जीवादयः किमेभिः समासेन निरूप्यन्ते उत व्यासेनेत्यत आह-विकल्पश इति । शसश्च कारकसामान्याद् विधानमिति तृतीयार्थ एष इत्येतत् कथयति विस्तरेणेत्यनेन । उक्तेपि चैतस्मिन्नप्तम्पूर्णमेव वाक्यं स्याद् यदि पूर्वसूत्रादधिगम इत्येतन्नानुवर्तेत, अतोऽनुवति इति कथयति-अधिगम इति । सत्तां च पदार्थो न व्यभिचरति यद्यपि तथाप्यन्यस्याः
। 'निजकक्कव्यतासत्याः' ( सम्मति-तर्के ) । ३ ‘एवं सर्वेपि नया मिभ्यादृष्टयः' ( सम्मति.)।
व्याख्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org