________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः १ मुपक्षिप्तानामित्यर्थः, अतः पूर्वमुद्घट्टितानां न्यस्तानां च इह प्रमाणनयैर्विस्तराधिगमो भवति। विस्तराधिगम इति । एकैकस्य तत उद्घटनादपकृष्टस्य विस्तरेण लक्षणविधानाख्येन वक्ष्यमापेन (१-१०,१-३५)प्रमाणनयरूपेणाधिगमः-परिच्छेदो भवति। एतत् कथितं यदा यदाधिगमस्तदा तदान प्रमाणनयान विरहय्येति । न चायं पर्यनुयोगः कार्यः-प्रमाणनयैः कथं भवत्यधिगम इति ? । यस्माज्ज्ञान विशेषाः प्रमाणनयाः, अतः प्रकाशस्वभावत्वात् प्रदीपवदधिगमशक्तिता । अथ कतिविधं प्रमाणमिति सङ्ख्यानियमाय प्रश्नयति । आह-तत्र प्रमाणं द्विवि. घम् । तत्रति सिद्धान्तं नन्दादिकं व्यपदिशति । प्रमाणमिति च प्रमीयतेऽनेन तत्त्वमिति
प्रमाणम्, अस्मिन् पक्षे आत्मा सुखादिगुणकलापोपेतस्तेनावबुध्यते प्रमाण-द्वविध्यम् साधकतमेन मत्यादिना विषयमिति प्रतिपत्तव्यम् । यदा तु 'कृत्यल्युटो
बहुलम्' (पाणिनिः अ० ३, पा० ३, मू० ११३ ) इति कर्तरि प्रमाणमित्येतत् तदात्मनोऽविभक्तं मत्यादिज्ञानपञ्चकम् , प्रमिणोत्यवगच्छतीति प्रमाणम्, यदा त्वधिकरणे प्रमाणमित्येतत् तदा प्रमीयतेऽस्मिन् बहिरङ्गोऽर्थ इति प्रमाणम्, आत्मन्येव बहिरङ्गार्थप्रतिबिम्बनात्, नहि विपयाकारानारूपित तज्ज्ञानं तस्य परिच्छेदे वर्तते, यदा तु तेन विषयाकारेण तज्ज्ञानं परिणतं भवति तदा तस्य वस्तुनः परिच्छेदोऽन्यथा नेति । द्विविधमित्यनेन सङ्ख्यानियम इति द्विविधमेव न पुनस्त्रिविधादि । कथं द्वैविध्यमिति चेत् ? उच्यतेइहैवाध्याये प्रत्यक्षं परोक्षं चेति वक्ष्यते ( १-११, १२ ) उपरिष्टात् । पराणि च निर्माणाङ्गोपाङ्गोदयनिवृत्युपकरणरूपाणीन्द्रियाणि २-१७ ) मनश्च मनोवर्गणापरिणतिरूपं द्रव्येन्द्रियं परं तेभ्यो य पजायते ज्ञानं तन्निमित्तजं तत् परोक्षमुच्यते धूमादग्निज्ञानवत्, प्रत्यक्षं पुनरश्नाति अश्नुते वाऽथोनित्यक्ष:-आत्मा तस्याक्षस्येन्द्रियमनांस्यनपेक्ष्य यत् स्वत एवोपजायते तत् प्रत्यक्षम् । यदि तर्हि नन्द्यां द्विविधमुपदिष्टं कथमनुयोगद्वारग्रन्थे चतुर्विधमुपन्यस्तम् ? । यतः केचिन् नैगमादयो नयाः । चतुर्विधमित्येके नयवादान्तरेण । एके सूरयश्चतुर्विधं प्रमाणमुपदिशन्ति नयभेदेन प्रत्यक्षानुमानोपमानागमाख्यम्, एतच यथा दुःस्थितं चातुर्विध्यं तथा भाष्यकार एवोत्तरत्र दर्शयिष्यति (१-१२) । एवं प्रमाणावयवं निर्भिद्य व्युत्पत्त्यादिद्वारेण नयावयवं विभजन्नाह-नयाश्चेत्यादि । नयन्तीति नयाः कारकाः व्यजका इति यतः सूत्रार्थ ( यतस्तवार्थ) दर्शयिष्यति भाष्यकारः, ये ह्यनेकधर्मात्मक वस्त्वेकेन धर्मेण निरूपयन्ति एतावदेवेदं नित्यमनित्यं वेत्यादिविकल्पयुक्तं ते नया नैगमायो वक्ष्यन्ते (१-३४)॥ ननु च प्रमाणमपि सामान्यविशेषात्मकवस्तुपरिच्छेद्येव, नया अपि
चैवंविधविपयोपनिपातिन एवेति नास्ति कश्चिद् विशेपः, ज्ञानात्मप्रमाणनगान भिन्नता । कत्वाद्धि नया न भेदेनोपादेयाः प्रमाणादिति, असत्या एव
नया इति [ चेदनो ] हेयतया न्याय्यमुपादानमित्येतदपि न, यतो वक्ष्यति-" न विप्रतिपत्तयोर्थाध्यवसाया" इति [१-३५ ], तथा “ नियय
१'अपरिणतं' इति ख-टी-पाठः। २ 'मुशन्ति' इति ग-पाठः । 'कत्राथ' इति 'कत्रथ' इति वाग-टीपाठः । ४ 'परिच्छेदे च, 'परिच्छेदे व' इति क-ख-पाठौ। ५'सायात्' इति क-ख-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org