________________
सूत्र ६]
. स्वोपज्ञमाष्य-टीकालङ्कृतम् प्राप्त्यभिधायित्वे सत्ययमों भव्यशब्दस्य, कर्मसाधनपक्षे प्राप्यन्ते स्वधर्मे यानि तानि भव्यान्युच्यन्ते, करीसाधनपक्षे तु प्राप्नुवन्ति तान्येव धर्मादीनीति भव्यानि द्रव्याण्युच्यन्ते इति । एतदाह-प्राप्यन्ते प्राप्नुवन्तीति वा द्रव्याणि । सम्प्रति जीवादीनां न्यासं प्रदर्य तेषां च पर्यायस्य द्रव्यशब्दस्य अन्येषामप्येवमेव कार्य इत्यतिदिशन्नाह-एवं सर्वेषामित्यादि । एवं यथा जीवादीनां द्रव्यशब्दस्य च तथा सर्वेषां गुणक्रियादिशब्दानाम्, अनादीनां इति भव्याभव्यादीनाम, आदिमतां च मनुष्यादीनां पर्यायाणां, जीवादीनां भावानां जीवादिभ्योऽनन्यवृत्तीनाम्, तत्वाधिगमार्थमिति तत्त्वस्य-परमार्थस्य भावस्य अधिगमः स सर्वत्र, न तु नामस्थापनाद्रव्याणामिति, हेयत्वादेषां, तत्त्वाधिगमप्रयोजनं न्यासो निक्षेपो रचना कार्या बुद्धिमता मुमुक्षुणेति ॥ ५॥
शिष्य आह-कथं भगवता तत्त्वानां जीवादीनामधिगमः कृतः । यदि च केनाप्युपायेनाधिगतानि भवन्ति ततो युक्तं कथनमन्यसायेतानि तत्वानीति ? उच्यते
सूत्रम्-प्रमाणनयैरधिगमः ॥ १६ ॥ टी०-प्रमाणनयैरिति च करणे तृतीया न कर्तरि, यतस्तत्र षष्ठया भवितव्यम् 'कर्तृकर्मणोः कृती' (पाणिनिः अ० २, पा० ३, सू० ६५) इति । प्रमाणे प्रत्यक्षपरोक्षे द्वे, अवधिमनःपर्यायकेवलानि मतिश्रुते च, नैगमादयो नयाः पञ्च, प्रमाणे च नयाश्च प्रमाणनयास्तैः प्रमाणनयैः साधकतमैः ।
भा०–एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभियंस्तानां प्रमाणनयैर्विस्तराधिगमो भवति । तत्र प्रमाणं द्विविधं-प्रत्यक्षं परोक्षं च वक्ष्यते (१-१०,१२ ) । चतुर्विधमित्येके नयवादान्तरेण । नयाचे नैगमादयो वक्ष्यन्ते (१-३४ ) ॥ किश्चान्यत् ॥६॥ टी-एषां चेत्यादि । एषाम् इति भवतः प्रकटीकृतानाम्, चशब्द एवकारार्थे,
एषामेवान्यस्याभावात्, अथवा समुच्चये, एषां जीवादीनां, चअधिगम-साधनम् शब्दानामादीनां च, तत्त्वानामिति चानेनोभयं सम्बध्यते, जीवा
दीनां तत्त्वानां नामादीनां च तत्त्वानाम् । यथोद्दिष्टानामिति । यथा परिपाट्या जीवाजीवादिकया सामान्येनाभिहितानामुद्दिष्टानामिति । सामान्येन च जीवाजीवात्रत्र (१-४ ) इत्यस्मिन् सूत्रेऽभिधाय पुनर्नामस्थापनादिसूत्रे नामादिभिर्मेंदैन्येस्तानां, किमर्थं पुनर्जीवाजीवास्रवादिसूत्रे उद्घाट्य ततो नामादिमत्रे न्यस्तानि?। उच्यतेपरिज्ञानार्थमनेको जीवशब्दवाच्योऽर्थ इत्यस्य । एतदेवाह-न्यस्तानामिति । अधिगमोपायार्थ
१'मन्यस्यायत्तानि ' इति ख-पाठः । २ 'यथोपदिष्टानां' इति ख-घ-टी-पाठः । ३ 'न्यस्तानामित्यधिगमोपायार्थमुपक्षिप्तानामित्यर्थः' इति ख-घ-टी-पाठः । ४ 'नयाच पञ्च' इति ख-घ-टी-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org