________________
५४
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १
क्रियाया नाध्याहारः कर्तव्यः, ततश्च भवतीत्याह । एवं सम्बन्धं लगयित्वा सूत्रं व्याख्या
नयनाह
भा० - तद्यथा । निर्देशः । को जीवः १ । औपशमिकादिभावयुक्तो द्रव्यं जीवः ॥
टी० - तद्यथेत्यादि । यथैते भाव्यन्ते निर्देशादयः तथा कथ्यन्ते, निर्देश इति चोपन्यस्य उद्देशवाक्यमुच्चारयति - को जीव इति । न चाप्रस्तुतोपन्यासः, कथमिति चेत् ? उच्यते - उद्देशवाक्यमन्तरेण निर्देशस्य ख्यापनमशक्यं कर्तुम्, यदि हि पूर्व सामान्यरूपोहेशचोदना न स्यान्निर्देशवाक्यमप्यसम्बद्धत्वादुन्मत्तवचोवदसङ्गतार्थं स्यात्, सामान्यार्थाभिधानमुद्देशः, तद्विशेषप्रतिपिपादयिषया वचनं निर्देशः । पूर्व प्रश्नवाक्यमुच्चारयति - निर्दिश्यमानाथपकारि, कीदृशः खलु मया जीवः प्रतिपत्तव्यः १ किं द्रव्यरूपो गुणरूपः क्रियास्वभाव इति ।। नामादीनां वा अन्यतम इति पृष्टे निर्देश इति - निश्चयेन उपयुज्यते प्रस्तुते वस्तुनि स निर्देशः । औपशमिकादिभावेत्यादि । औपशमिकादयोऽभिहितास्त एव भावास्तथाभवनादात्मनः तैर्युक्तः औपशमिकादिभावयुक्तः । द्रव्यं जीव इति, गुणक्रियान्युदासद्वारेण निश्चयेन तदादिष्टं द्रव्यं जीव इति । द्रव्यं जीवः स चाप्योपशमिकादिभावयुक्त इति । ततश्च न केवलं द्रव्यं नापि केवला भावाः किन्तु उभयात्मकं जीववस्तु प्रतिपन्नं भवति । अथवा द्रव्यमेव प्रेधानं यतस्तेन तेनौपशमिकादिभावेन द्रव्यमेव तथा तथा विपरिवर्तते १ ॥ स्वामित्वादयो जीवे - भ्यूह्या अनया दिशेति न दर्शितवान्, वयं तु दर्शयामः - स्वामी - प्रभुः तद्भावः स्वामित्वं, जीवो हि कस्य प्रभुः ? जीवस्य वा के स्वामिनः १ इति, उच्यते - जीव एकोऽवधीकृतः धर्मादीनामस्तिकायानां स्वामी, यतः सर्वेषु मूर्च्छा यात्युपलभते परिभु के शरीरतया वादतेऽतः सर्वेषां जीवः स्वामी, जीवस्यापि जीवा अन्ये तन्मूर्च्छादिकारिणः स्वामिनो भवन्ति २|| साध्यते येन तत् साधनम्, केन चात्मा साध्यते ? उच्यते- नान्येनासौ सततं समवस्थितत्वाद् बाह्यान् वा पुद्गलान् अपेक्ष्य देवादिजीवः साध्यत इति तैस्तत्तत्स्थानं नीयत इति ३॥अधिकरणमाधारः, कैस्मिन्नात्मा निश्चयस्य स्वात्मप्रतिष्टत्वात् स्वात्मनि, व्यवहारस्य शरीराकाशादौ ४ || स्थितिरात्मरूपादनपगमः । कियन्तं कालमेष जीवभावेनावतिष्ठते । । भवाननङ्गीकृत्य सर्वस्मिन् काले, देवादींस्तु भवानङ्गीकृत्य यावती यत्र स्थितिस्तावन्तं कालं तत्रावतिष्ठत इति ५ || विधानं प्रकारः, कतिप्रकारा जीवाः ? सस्थावरादिभेदाः ६ ॥ एवं शेषा अपि सिद्धान्तानुसारिण्या धियावलोक्य पारमर्षं प्रवचनं वाच्याः, ग्रन्थगौरव भयात् तु नादद्रे भाष्यकारः । तथा यदर्थं शास्त्रप्रवृत्तिस्तत्रापि योजनां निर्देशादीनां कुर्वन्नाह -
पा० - सम्यग्दर्शन परीक्षायाम् । किं सम्यग्दर्शनं द्रव्यम् ? । सम्यग्दृष्टिजीवोsरूपी नोस्कन्धो नोग्रामः ॥
१ 'गुण्य क्रिया' इति क- ख- पाठः । २ ' प्राधान्यं इति क-ख- पाठः । ३ 'कस्मिन् वा' इति ख- पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org