________________
४८
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ तत्र चतुष्टयं निक्षिपेदिति भणता व्यापिताऽभ्युपगता। उच्यते-प्रायः सर्वपदार्थेष्वन्येषु सम्भवन्ति, यद्यत्रेकस्मिन्न सम्भवति नैतावता भवत्यव्यापिता, तत्र नियुक्तिकारेण भद्रबाहुस्वामिना अविशेषेण प्राणायि नामादीति । अपरे त्वेतद्दोषभयादेवं वर्णयन्ति-अहमेव मनुष्यजीवो द्रव्यजीवोऽभिधातव्यः उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य, अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवानि, यतश्चाहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति । एतत कथितं तैर्भवति पूर्वः पूर्वो जीवः परस्य परस्योत्पित्सोः कारणमिति ? अस्मिंश्च पक्षे सिद्ध एव भावजीवो नान्य इति, तस्मादिदमपि परिफल्गु विज्ञायते, एतत्पक्षसमाश्रयणेन च नाव्यापिता नामादिचतुष्टयस्येति । अथवा जीवशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्यजीव इति । एवं ह्युक्तं “ आगमतो जाणए अणुवउत्तो" जीवशब्दार्थज्ञस्य वा यच्छरीरकं जीवरहितं स
द्रव्यजीवः ॥
इदानीं चतुर्थ विकल्पं दर्शयति-भावजीव इति । यः उक्तः॥ ननु च भावजीव इत्येकवचनेन पूर्व विन्यस्य व्याख्यावसरे बहुवचनान्तताप्रदर्शनमयुक्तं भावतो जीवा इति । उच्यते-मैवं कश्चित् ज्ञासीद् यथा एक एव भावजीवो न भूयांस इति । यथा पुरुषकारणिन आहुः- "पुरुष एवेद"मित्यादि, एतनिरासाय बहुवचनमुपात्तवान् , बहव एते जीवा इत्यस्य प्रदर्शनार्थम् । भावत इति च तृतीयार्थे तसिः, भावैः सह वर्तन्ते इति ते भावजीवाः । के पुनस्ते भावाः यैः सह वर्तन्ते इति ? उच्यते-औपशमिकादीत्यादि । तत्रोपशमः पुद्गलानां सम्यक्त्वचारित्रविधातिनां करणविशेषादनुदयो भस्मपटलाच्छादिताग्निवत् , तेन निवृत्तः
औपशमिकः परिणामोऽध्यवसाय इत्युच्यते । तथा ज्ञानादिघातिनां पुद्गलानां य आत्यन्तिकोऽत्ययः स क्षयः तेन निवृत्तोऽध्यवसायः क्षायिक उच्यते । तथा ज्ञानादिधातिनां पुद्गलानां क्षयोपशमौ, केचित् क्षपिताः केचिदुपशान्ता इति क्षयोपशमावुच्येते, ताभ्यां निवृतोऽध्यवसायः क्षायोपशमिक इति । ये पुनः पुद्गला गतिकषायादिपरिणामकारिणः तेषामुदयः-अनुभूयमानता या स उदयस्तेन निवृत्तोऽध्यवसाय औदयिक इति । परिणमनं परिणामो जीवत्वाद्याकारेण यद्भवनं स पारिणामिकः, स्वार्थ एव प्रत्ययः। एत एव भावा-अध्यवसायास्तैर्युक्तः औपशमिकादिभावयुक्तः। यथा कश्चिन्मनुष्यः पञ्चभिरपि संयुक्तो भवति । तत्कथमिति चेत् ? उच्यते-कस्यचित् संयतादेरुपशान्तकोपादिकपायस्य औपशमिकः, तस्यैव क्षपितानन्तानुबन्धिमिथ्यादर्शनादेः क्षायिको भावः, तस्यैव क्षीणोपशान्तमतिश्रुताद्यावरणस्य क्षायोपशमिको भावः, तस्यैव मनुष्यगतिपरिणामकारिपुद्गलोदये औदयिको भावः, तस्यैव जीवत्वभव्यत्वादिपरिणामः पारिणामिक इति, एवं देवादीनां यथासम्भवं बोध्याः । उपयोगलक्षणा इति साकारानाकारसंविल्लक्षणा इत्यर्थः। ते च नैकरूपाः, किन्तु संसारिण इत्यादि । संसारश्चतुर्विध उक्तः (१-३) स येषामस्ति संसारिणो-मनु
१ आगमतो ज्ञायकः अनुपयुक्तः ( अनुयोग० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org