________________
सूत्रं ५
स्वोपज्ञभाष्य-टीकालङ्कृतम् प्यादयः । मुक्तास्तु ज्ञानावरणादिकर्मभिः समस्तैर्मुक्ता एकसमयसिद्धादयः । पशब्दाद सप्रभेदा द्विधा वक्ष्यन्ते द्वितीयेऽध्याये (२-१०)॥
एवं जीवपदार्थे नामादिन्यासमुपदर्य एकत्र दर्शितोऽन्यत्र सुज्ञान एव भवतीत्यतिदिशति-एवमजीवादिष्वित्यादि। अजीवादिषु इति चोक्तेऽपि पुनः सर्वेषु इत्यभिदधद् व्याप्तिं नामादिन्यासस्य दर्शयति, अनुगन्तव्यं नामादिचतुष्टयं दर्शनीयमित्यर्थः । अजीव इति नाम यस्य चेतनस्याचेतनस्य वा क्रियते स नामाजीवः । स्थापनाजीवः काष्ठादिन्यस्तः । द्रव्याजीवो गुणादिवियुतो बुद्धिस्थापितः । भावाजीवो धर्मादिर्गत्याद्युपग्रहकारीति । नामास्रवो यस्यास्रव इति नाम कृतं स नामात्रवः । स्थापनास्रवः काष्ठादिरचितः । द्रव्यास्रवस्तु आत्मसमवेतोः पुद्गलाः अनुदिता रागादिपरिणामेन । भावासवास्तु त एवोदिताः। द्रव्यवन्धो निगडादिः, भावबन्धः प्रकृत्यादिः। द्रव्यसंवरोपिधानं, भावसंवरो गुप्त्यादिपरिणामापन्नो जीवः । द्रव्यनिजेरा मोक्षाधिकारशून्या त्रीह्यादीनां, भावनिर्जरा कर्मपरिशाटः सम्यग्ज्ञानाद्युपदेशानुष्ठानपूर्वकः । द्रव्यमोक्षो निगडादि विप्रयोगः, भावमोक्षः समस्तकर्मक्षयलाञ्छनः । तथा द्रव्यसम्यग्दर्शनं ये मिथ्यादर्शनपुद्गला भव्यस्य सम्यग्दर्शनतया शुद्धि प्रतिपत्स्यन्ते तद् द्रव्यसम्यग्दर्शनं, एत एव विशुद्धा आत्मपरिगामापन्ना भावसम्यग्दर्शनं । तथा द्रव्यज्ञानमनुपयुक्ततावस्था, भावज्ञानमुपयोगपरिणति विशेषावस्था । द्रव्यचारित्रमभव्यस्य भव्यस्य वाऽनुपयुक्तस्य, उपयुक्तस्य क्रियानुष्ठानमागमपूर्वकं भावचारित्रमिति ॥
येऽपि येषां जीवादीनां सामान्यशब्दास्तेष्वप्यस्य नामादिचतुष्टयस्यावतार इति कथयनाह-पर्यायान्तरेणापीत्यादि । प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायाः, पर्यायादन्यः
पर्यायः पर्यायान्तरं, तेनाप्यस्य चतुष्टयस्य न्यासः कार्यः, तदाहमामद्रव्यादिविचारः
दि नामद्रव्यं इत्यादि । एतद् भाष्यं नामादिजीवव्याख्यानेन भावितमेव
___यावत् केचिदप्याहुरिति । तथाप्यशून्यार्थमुच्यते-नामद्रव्यं यस्य चेतनावतोऽचेतनस्य वा द्रव्यमिति नाम क्रियते, यत् पुनः स्थाप्यते काष्ठादिषु तत् स्थापनाद्रव्यं विशिष्टाकारमिति । द्रव्यद्रव्यमिति उभाभ्यां द्रव्यशब्दोभ्यां गुणादिभ्यो निष्कृष्य द्रव्यमात्रे स्थाप्यते । एतदेवाह-गुणपर्यायवियुक्तं इत्यादिना, तैविरहितं, न च परमार्थतः शक्यन्ते तेऽपनेतुं, तत्स्वभावत्वाद, अतः प्रज्ञास्थापितमित्याह । तच्चान्यस्याभावात् षष्ठस्य प्रसिद्धमेव तदेव कथयति-धर्मादीनामन्यतमत् इति । यद्यदेव विवक्षितुं इष्यते तत् तदेषां मध्ये ग्राह्यं नात्र नियम इत्येतत् कथयति-शून्योऽयं विकल्प इति। पूर्ववत् प्रयोगतोभावना कार्या, एप तावत् तृतीयविकल्पे ग्रन्थकाराभिप्रायः । अपरे तु कथयन्ति विकल्पं तृतीयमन्यथा,
१ शुभाशुभात्मपरिणामकारणभूतपुद्गलापेक्षया । २ सकामनिर्जरामपेक्ष्य । ३ स्वरूपावस्थानस्य तत्त्वात् निश्शेष. कर्मक्षयस्य तु तपःसंयमद्वारत्वात् । ४ द्रव्यशब्दद्वयेनेत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org