________________
सूत्र ५]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
द्रव्यं
मनुष्यादयः, गुणाश्च पर्यायाश्च गुणपर्यायास्तैः वियुक्तो रहित इत्यर्थः ॥ ननु चैवंविधोऽर्थो नास्त्येव, समस्तधर्मकदम्बकरहितत्वात् मण्डूकजटाभारवदित्युक्ते आह- प्रज्ञास्थापितः । प्रज्ञा - बुद्धिस्तया स्थापितो - वियत्यालिखितः कल्पित इतियावत् । एतदुक्तं भवति न तें गुणपर्यायास्ततो द्रव्याद विष्वग्भवन्ति, किं तर्हि ? बुद्धया तत्स्था एव विभज्यन्ते, ततश्च द्रव्यमात्रं केवलमवतिष्ठते बुद्धिपरिकल्पनागोचरतामितम्, एतदाह – अनादिपारिणामिकभावयुक्त इति । भावशब्दो हि औदयिकादिषु वर्तमानः पारिणामिक इत्यनेन विशेषे स्थापितः । पारिणामिकभावोऽपि सादिरस्त्यन्द्रधनुरादीनाम्, किं तादृशोऽयं ? नेत्याहअनादिपारिणामिकभाव इति । अनादिश्वासौ पारिणामिक भावश्चानादिपारिणामिकभावस्तेन युक्तोऽनादिपारिणामिकभावयुक्त इति । एतदुक्तं भवति - यत्तदनादिकालसन्ततिपतितं तावन्मात्रं तदिति मैवं मंस्थाः अनादिपारिणामिकभावयुक्त इति, अत्र भावशब्दः श्रूयते इतिकृत्वाऽस्ति द्रव्ये कोऽपि भावांश इति । न खलु कश्चित् तत्र गुणः पर्यायो वाऽस्तीति द्रव्यमात्रं निरस्ताशेषगुणपर्यायत्रातं द्रव्यजीव इत्येवं शब्द्यते । ननु च सतां गुणपर्यायाणां बुद्धया नापनयः शक्यः कर्तुं यतो न ज्ञानायत्तार्थपरिणतिः, अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्तीत्यत आह- शून्योऽयं भङ्गः । शून्य इति न सम्भवति, अयं इति द्रव्यजीवविकल्प इति । यतो द्रव्यदेवः कः ? । उच्यते - यो भव्यो देवत्वपर्यायस्य योग्यो न तावद् भवति स मनुष्य एव सन् द्रव्यदेवोऽभिधीयते भविष्यति इतिकृत्वा, एवमिहापि यद्ययमवधीकृतो जीवः स इदानीमजीवः सन्नायत्यां जीवोऽजनिष्यत् ततोऽयं विकल्पः समभविष्यत्, न चैतदस्तीत्येतदाह-यस्य जीवस्येत्यादि । यस्य इति वस्तुनः, हिशब्दो यस्मादर्थे, अजीवस्य चेतनारहितस्य सतो विद्यमानस्य अचेतनावस्थायां सम्प्रति भव्यं भविष्यच्चेतनावत्वं भवेत् इदानीमचेतनत्वेन वर्तमानः द्रव्यजीव इति कारणजीव:, आगामिन्या जीवतायाः कारणमित्यर्थः, एतत् स्यात् इष्यत एवायमर्थः । क्वचिद् वस्तुन्यभूतमिदानीं जीवत्वं भविष्यतीति, तन्न, अनिष्टत्वात्, यथैव ह्यसन्नसौ विशेषो जीवत्वेन सम्प्रति आगामिकाले जीवत्वं प्रतिपत्स्यत इत्यभ्युपगम्येत, एवं योऽयमिदानीं जीवतया वर्तते अयमेवायत्यामजीवत्वं यास्यतीत्यभ्युपगम्यताम्, एवं च सति सिद्धान्तविरोधः, यतो जीवत्वमनाद्यनिधनपारिणामिको भावः समय इष्यते । एतदेवाह – अनिष्टं चैतत् इति । चशब्द एवकारार्थे, अनिष्टमेव सिद्धान्तविरोध्येवैतदभ्युपगमान्तरमिति ॥ ननु चैवं सति नामादिचतुष्टयस्याव्यापिता प्राप्ता, द्रव्यजीवविकल्पाभावात्, अभ्युपगतं च सिद्धान्ते व्यापित्वेन नामादिचतुष्टयम्, यत एवमाह -
64
जत्थ उ जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसम् । जत्थवि नय जाणेज्जा चउक्कयं निक्खिवे तत्थ ||" - अनुयोगद्वारे
१ 'अजनिष्यत' इति क- ख- पाठः ।
Jain Education International
For Personal & Private Use Only
४७
www.jainelibrary.org