________________
सूत्र ४ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
४१
लोक्य भवत्येव । परोपदेशात् परोपष्टम्भेन यदुदेति तत्त्वार्थेषु - जीवादिषु श्रद्धानं - रुचि - स्तदधिगमसम्यग्दर्शनमिति ॥ ३ ॥
सम्प्रत्युत्तरसूत्रसम्बन्धं स्वयमेव लगयन्नाह -
भा०—अत्राह तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । तत्र किं तत्त्वमिति । अत्रोच्यते ॥ ३ ॥
टी० - अत्राहेत्यादि । अत्र - एतस्मिंस्तवार्थश्रद्धानलक्षणे सम्यग्दर्शने विषय स्वरूपोपरक्ते व्याख्याते विषयविवेकमजानंश्चोद कोऽनूनुदत् - भवता तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्येतदुक्तं, तत्र किं तत्त्वमिति, तत्रेत्यनेन तत्त्वार्थश्रद्धानशब्दे यस्तत्त्वशब्दस्तत्र किं तत्त्वं किंतस्याभिधेयमिति ॥ ननु चायुक्तोऽयं प्रश्नो, भाष्ये तत्त्वस्य पुरस्तान्निर्णयः कृत इति, तत्त्वानि जीवादीनि वक्ष्यते त एवार्था इत्यस्मिन्, अतो निर्ज्ञाते तत्त्वे प्रश्नयतो जाड्यमवसीयते, उच्यते-न जाड्यात् प्रश्नः, सत्यमुक्तं तत्त्वानि जीवादीनि, आदिशब्देन तु अनेकस्याक्षेप इति नास्तीयत्ता, तस्माद् भाष्याद् न निर्णयोऽतः इयत्तापरिज्ञानाय प्रश्नः । सूरिराह - अत्रो - च्यते । अत्र भवत्प्रदर्शिते तस्वशब्दे यदभिधेयं तदियत्तया निवृत्तस्वरूपमुच्यते
सूत्रम् — जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ १-४ ॥
टी. - जीवाजीवास्स्रव इत्यादिना । समासपदं चैतत् समासपदे च विग्रहमन्तरेण न सुखेन प्रतिपत्तिः परस्मै शक्या कर्तुं इत्यतो विग्रहयति ।
भा० – जीवा अजीवा आस्त्रवा बन्धः संवरो निर्जरा मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् । एते वा सप्त पदार्थास्तत्त्वानि । तान् लक्षणतो विधानतश्च पुरस्ताद् विस्तरेणोपदेक्ष्यामः ॥ ४ ॥
जीवादितत्त्वसप्त
-जीवा अजीवा इत्यादि । जीवा औपेश मिकादिभावान्विताः साकाराना - कारप्रत्ययलाञ्छनाः शब्दादिविषयपरिच्छेदिनोऽतीतानागतवर्तमानेषु समानकर्तृकक्रियाः तत्फलभुजः अमूर्तस्वभावाः । एभिरेव धर्मैर्वियुता कस्य स्वरूपम् । अजीवाः धर्मादयश्वत्वारोऽस्तिकायाः । आस्सूयते यैर्गृह्यते कर्म त आस्रवाः शुभाशुभकर्मादानहेतव इत्यर्थः । बन्धो नाम, तैरास्रवैर्हेतुभिरात्तस्य कर्मणः आत्मना सह संयोगः प्रकृत्यादिविशेषितः । तेषामेवात्रवाणां यो निरोधः - स्थगनं गुप्त्यादिभिः स संवरः । कर्मणां तु विपाकात् तपसा वा यः शाटः सा निर्जरा । ज्ञानरामवीर्यदर्शनात्यन्तिकै कान्तिका बाधनिरुपमसुखात्मन आत्मनः स्वात्मन्यवस्थानं मोक्षः । इतिशब्द इयत्तायाम्, एतावानेव । एष इति भवतः प्रत्यक्षीकृतो वचनेन । सप्त
टी०
--
१ 'आस्रवः' इति क-ख-घ-टी-पाठः । २ 'उपशमिकादि' इति क-ख- पाठः ।
६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org