________________
४२
तत्वार्थाधिगमसूत्रम्
[ अध्यायः १
-
विधाः सप्त प्रकारा यस्य स सप्तविधः, अर्थोऽर्यमाणत्वात्, एष सप्तविधोऽर्थ इति पदत्रयं तत्त्वमित्यस्य विवरणम्, तत्त्वमिति वाऽव्युत्पत्तौ तथ्यं सद्भूतं परमार्थ इत्यर्थः । व्युत्पत्तौ तु जीवादीनामर्थानां या स्वसत्ता सोच्यते, तस्याश्च सत्तायाः प्रतिभेदं प्रतिवस्तु यो भेदस्तमनादृत्यैकत्वमेकत्वाच्चैकवचनमुपात्तवान् ॥ अथैवं कश्चित् चोदयेत् — याऽसौ जीवादीनां सत्ता, सा न वैशेषिकैरिवास्माभिर्भिन्ना जीवादिभ्यो ऽभ्युपेयते - यतोऽभिहितम् - " घडसत्ता घडधम्मो तत्तोऽणनो पडाइओ भिन्नो ं (विशे० १७२२) " । तस्मात् प्रतिवस्तु सा भेत्तव्या, प्रतिवस्तु च भिद्यमाना बहुत्वं प्रतिपद्यत इति बहुत्वाद बहुवचनेन भवितव्यम् तत्त्वानीति, उच्यते - सामान्येन विवक्षिता सती सैकत्वमिव विभर्ति, मुख्यया तु कल्पनया वस्तुधर्मत्वात् प्रतिवस्तु भेत्तव्या भवति, तदा च बहुवचनेनैव भवितव्यमेवेति एतदाह-एते वा सप्त पदार्थास्तत्त्वानीति । एते प्राक् प्रत्यक्षीकृताः । वाशब्दो हि प्रतिवस्तु भिद्यमानं तत्त्वं बहुत्वं प्रतिपद्यत इत्यस्य पक्षस्य सूचकः । सप्त च ते पदार्थाश्च सप्तपदार्थाः जीवादयः । तत्त्वानि दृश्यानि, पुण्यपापयोश्च बन्धेऽन्तर्भावान्न भेदेनोपादानम् । यद्येवमात्रवादयोऽपि पश्च तर्हि न जीवाजीवाभ्यां
तत्त्वमित्येकवचने हेतुः
आस्रवादीनां भिद्यन्ते । कथमिति चेत्, उच्यते- आस्रवो हि मिथ्यादर्श - तत्त्वानां जीवा - नादिरूपः परिणामो जीवस्य । स च कः आत्मानं पुद्गलांच जीवयोरन्तर्भावः विरह ? । बन्धस्तु कर्म पुद्गलात्मकमात्मप्रदेशसंश्लिष्टम् । संवरो - प्यास्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः । निर्जरा तु कर्मपरिशाटः, जीवः कर्मणां पार्थक्यमापादयति स्वशक्त्या । मोक्षोऽप्ययमात्मा समस्त कर्मविरहित इति । तस्मात् जीवाजीवास्तत्त्वमिति वाच्यम् । उच्यते - सत्यमेतदेवम्, किंतु इह शास्त्रे शिष्यः प्रवृत्तिं कारितोऽस्मात् कारणात् ज्ञानादिकात् सेव्यमानाद् भवतो मोक्षावाप्तिर्भविष्यत्यन्यथा संसार इति, तस्य च यदि मुक्तिसंसारकारणे न भेदेनाख्यायेते ततोऽस्य सम्यक्प्रवृत्तिरेव न स्यात् । यदा त्वेवं कथ्यते, आस्रवो बन्धश्चैतद्वयमपि मुख्यं तत्त्वं संसारकारणम्, संवरनिर्जरे च मुख्यं तत्त्वं मोक्षकारणमिति, तदाऽनायासात् संसारकारणानां हेयतया यतिष्यते मुक्तिकारणानां चादेयतयेति, तस्माच्छिष्यस्य हेयादेयप्रदर्शनायाऽऽस्रवादिचतुष्टयमुपातम् । यत् तु मुख्यं साध्यं मोक्षः यदर्था प्रवृत्तिस्तत् कथमिव न प्रदर्श्यतेति, तस्माद् युक्तं यत् पञ्चाप्युपादीयन्त इति । किं पुनरेषां जीवादीनां लक्षणमग्नेरिवौष्ण्यम् ? के वा भेदा जीवादीनां यथा तस्यैवास्तार्णपार्थ्यादय इत्युक्ते तान् लक्षणत इत्याद्याह । तान् जीवादीन् लक्षणतःस्वचिह्नेन, विधानतो - भेदेन, चशब्दाद् भेदानपि सप्रभेदान् वक्ष्यामि, पुरस्तात्उपरिष्टात्, किं सङ्क्षेपेणोत विस्तरेण ? विस्तरेणेत्याह । कथमिति चेत्, उच्यते - जीवस्य लक्षणमिदमुपयोगलक्षणो जीव इति ( २-८ ), तदेव लक्षणं विधानतः कथयिष्यति, स द्विविधः, साकारोऽनाकारश्च पुनस्तावष्टचतुर्भेदाविति ( २-९), तथा संसारिणो मुक्ताश्च
१ 'चाव्युत्पत्ती' इति क - ख- पाठः ।
२ घटसत्ता घटधर्मः तस्मादनन्यः पटादितो भिन्नः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org