________________
४०
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ एनमेव च विप्रकीर्णमर्थमाख्यातवान् तानि तानीत्यादिना भाष्यग्रन्थेनोत्पद्यत इत्येवमन्तेन । अनादिमिथ्यादृष्टेरपि[इति ]। नास्यादिरस्तीत्यनादिः अनादिमिथ्यादृष्टिरस्येत्यनादिमिथ्यादृष्टिः-अप्राप्तपूर्वसम्यक्त्वलाभः, न चास्ति कश्चित् तादृक् कालो यस्मिन्नुपदिश्यतायं मिथ्यादर्शनं प्रतिपन्नवानिति । तथा चागमः "अत्थि अणन्ता जीवा जेहिं न पत्तो तसाइपरिणामो"। तस्यानादिमिथ्यादृष्टेः, अपिशव्दात् सादिमिथ्यादृष्टेरपि, यो हि भव्यः सम्यक्त्वं प्रतिपद्य प्राक पश्चादनन्तानुवन्धिकषायोदयाज्जातव्यलीको मनोज्ञपरमानवद्धमतिर्जघन्येनान्तर्मुहूर्ते स्थित्वोत्कर्षेणापापुद्गलपरावर्ते पुनः प्रतिपद्यमानः सादिमिथ्याष्टिर्भवति, तस्यापि सतो-भवतः परिणामविशेषात्, परिणामोऽध्यवसायश्चित्तं तस्य विशेषः स एव वा पूर्व जघन्यमङ्गीकृत्य परः परः शुभो विशेष इत्युच्यते, परिणामविशेषचेह यथाप्रवृत्तिकरणमभिमतं, ततः परं अपूर्वकरणं, अप्राप्तपूर्व तादृशं अध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते ग्रन्थि विदारयतः, ततश्च ग्रन्थिभेदोत्तरकालभाव्यनिवृत्तिकरणमासादयति, यतस्तावन्न निवर्तते यावत् सम्यक्त्वं न लब्धमित्यतोऽनिवृत्तिकरणं, ग्रन्थान्तरे प्रसिद्धत्वात् भाष्यकारेणानिवृत्तिकरणं नोपातम् । अवश्यतया वा सम्यग्दर्शनं लभमानस्त ल्लभत इति काकाऽभ्युपेतमेव, तदभावेऽभावात् , अतो न कश्चिद् विरोध इति । सम्प्रति निगमयति-यदेवमुपजातमेतन्निसर्गसम्यग्दर्शनमिति । जीवस्य उपयोगस्वाभाव्यात् तदधिगमात् प्राप्यते । कोऽधिगम इति चेत् तदुच्यते-अधिगमोऽभिगम इत्यादि । गमेर्गत्यर्थस्वाज्ज्ञानार्थता, गमो ज्ञानं रुचिरिति, अधिको गमोऽधिकं ज्ञानम्, कथं वाधिक्यम् ? यस्मात् परतो निमित्ताद् भवति तदाधिक्यादधिकमुच्यते, अभिगमस्तु गुरुमाभिमुख्येनालम्ब्य यज्ज्ञानं सोभिगमः। आगमस्त्वागच्छत्यव्यवंच्छित्त्या वर्णपदवाक्यराशिराप्तप्रणीतः पूर्वापरविरोधशङ्कारहितस्तदालोचनात्तत्त्वरुचिरागम उच्यते, कारणे कार्योपचारात्, नडलोदकं पादरोग इति। निमित्तं तु यद् यद् बाह्यं वस्तूत्पद्यमानस्य सम्यग्दर्शनस्य प्रतिमादि तत् तत् सर्वमागृहीतं, ततो निमित्तात् प्रतिमादिकात् सम्यक्त्वं निमित्तसम्यग्दर्शनमुच्यते। श्रवणं श्रुतिराकर्णनं ततो यज्जायते। शिक्षा-पुनः पुनरभ्यासः, आप्तप्रणीतग्रन्थानुसारी ततो यद भवति । उपदिशतीत्युपदेशो-गुरुरेव देववच्छब्दसंस्कारस्ततो यत् प्रादुरस्ति । एवमेते किश्चिद भेदं प्रतिपद्यमाना अनर्थान्तरमिति व्यपदिश्यन्ते । एवं पर्यायकथनं कृत्वा सम्पिण्डय कथयति तदेवमित्यादिना ॥ तदधिगमसम्यग्दर्शनम्, एवमित्यनेनोक्तेन भेदनिरूपणेन यद्भवति । परोपदेशादित्यनेन तु निमित्तमात्रमाक्षिप्तं ग्राह्यम्, अन्यथोपदेशाच्छब्दादिति [न] व्याप्तिराख्याता स्यात्, यतो न केवलं शब्दादेव भवति, किन्तु कस्यचिद् भव्यस्य प्रतिमाद्या
१ रान्ति अनन्ता जीवा यैः न प्राप्तः त्रसादिपरिणामः । २ 'यथेवमुपजातमेव । तन्नि.' इति क-ख-पाठः । ३ 'व्यवस्थित्या' इति ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org