________________
३६
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ निसर्गोऽधिगमो वेति । एवं चःकार्यकारणभावे दर्शिते चोदक आह-यदि मुख्यया वृत्त्या हेतुः प्रतिपाद्यते सूत्रेण तथा सति किमेवं पुरस्ताद व्यपादेशि भवता तदेतत् सम्यग्दर्शनं द्विविधमिति ? एवं तु वाच्यमासीत्-तस्य सम्यग्दर्शनस्य द्वौ हेतू इति, तावेव सूत्रप्रतिपाद्यौ हेतू प्रदर्शनीयौ, न पुनः सूत्रेणानभिसमीक्षितं द्विविधत्वमित्येवं पर्यनुयुक्तः स्माह-द्विहेतुकं द्विविधमिति । द्वौ निसर्गाधिगमाख्यौ प्रत्येकं असमासकरणज्ञापितौ हेतू यस्य तद् द्विहेतुकम्, स तु द्विविधमिति मया व्यपदिष्टं, एतत् कथयति कारणद्वैरूप्यान् कार्यद्वित्वं न पुनर्मुख्यभेदप्रतिपादनं प्रेप्सितं, इह तु सूत्रे निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानत इति ( १-७ ) । विधानग्रहणात् क्षयसम्यग्दर्शनादिविधानं प्रतिपादयिष्यते । यदि तद्युत्पत्तौ निसर्गः कारणमभ्युपेयते तथा सति वाच्यो निसर्गः किमात्मकोऽसाविति ? उच्यते-निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनर्थान्तरमित्यादि । निसृज्यते-त्यज्यतेऽसौ कार्यनिर्वृत्तौ सत्यामिति निसर्गः, नहि कार्ये उत्पन्ने कारणेनापेक्षितेन किञ्चित् प्रयोजनमस्ति, उत्पन्ने हि सम्यग्दर्शने अनिवृत्तिकरणं त्यज्यते, प्रयोजनाभावात्, न चात्यन्तं तस्य त्यागमभ्युपगच्छामो, यतस्तदेव कारणं तेनाकारेण परिणतमिति, उत्फणविफणप्रसारिताकुण्डलितभुजङ्गवत्,(उत्-) फणपरिणामेन योऽहिरजनिष्ट स एव विगतफणो मुकुलमाधाय सन्तिष्ठते, उत्थितासीनशयितनिकुटितपुरुषवद्, वा उत्थितोऽपि पुरुषः पुरुष एव निषण्णः शयितो वा,
नावस्थामात्रभेदादवस्थावतो भेदः शक्योऽभ्युपेतुम्, परिशटितपत्रापरिणामभेदः ङ्गारकितपुष्पितपलाशवत् परिणामस्यानेकरूपत्वात् । परिणामिनोऽन्वयि
द्रव्यस्य न सर्वथा भेदस्तत्त्वात् । एवमिहाप्यनिवृत्तिरूपो निसर्गः परिणामः सम्यग्दर्शनाकारेण वर्तते, पूर्वावस्थां विहाय परिणामः, अन्वयि जीवद्रव्यं तु ध्रुवं परिणामि चोक्तम्, सृजेः परिणामेप्रतीतत्वात् स्वभाव इत्याह । यतः परिणामो हि प्रयोगेण घटादीनां विस्रसा चाभ्रेन्द्रधनुरादीनां दृष्ट इत्यतः वैससिकपरिणामं कथयत्यनेन, नासावन्येन प्राणिना तस्य क्रियतेऽनिवृत्तिरूपपरिणाम इति, स्वेनैवात्मनाऽसौ भावो जनित इति स्वभाव इत्युच्यते, नार्थान्तरवृत्तित्वमस्ति व्यवहारात् , निश्चयात् तु सर्वशब्दानां भिन्नार्थत्वम् । स पुनरनिवृत्तिस्वरूपपरिणामः कस्य भवति कथं वा प्राप्यते ? इत्युक्ते उत्तरं भाष्यमाह-ज्ञानदर्शनेत्यादि । येनास्यानुपदेशात् सम्यग्दर्शनमुत्पद्यते इत्येतत्पर्यन्तं यदुक्तं कस्येति ? जीवस्येति ब्रूमः। किंलक्षणो जीव इति । नवपरिज्ञाते जीवे तस्यैष
इति शक्यं प्रतिपत्तुमिति । उच्यते ज्ञानाद्युपयोगलक्षण इति । उपयोगरूपो जीवः ज्ञानं च दर्शनं च तावेवोपयोगी लक्षणमस्य स ज्ञानदर्शनोप
योगलक्षण इति, ज्ञानं नाम यजीवादीनां पदार्थानां विशेषणरिच्छेदितया प्रवर्तते तद् ज्ञानम्, यत् पुनस्तेषामेव सामान्यपरिच्छेदप्रवृत्तं स्कन्धावारोपयोगवत् तद् दर्शनमभिधीयते । न च कश्चिदेवमात्मकः प्राणी विद्यते य आभ्यां रहित इति,
१ 'यपादिशि' इति क-ख-पाठः । २ ‘युक्तमाह' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org