________________
सूत्रं ३]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
भा०-तद् एतत् सम्यग्दर्शनं द्विविधं भवति। निसर्गनिसगोधिगम- सम्यग्दर्शनम् अधिगमसम्यग्दर्शनं च । निसर्गादधिगमादू
वोत्पद्यत इति द्विहेतुकं द्विविधम् । निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनान्तरम् । ज्ञानदर्शनोपयोगलक्षणो जीव इति वक्ष्यते (२-८)। तस्यानादौ संसारे परिभ्रमतः कर्मत एव कर्मणः स्वकृतस्य बन्धनिकाचनोदयनिर्जरापेक्षं नारकतिर्यग्योनिमनुष्यामरभवग्रहणेषु विविधं पुण्यपापफलमनुभवतो ज्ञानदर्शनोपयोगस्वाभाव्यात् तानि तानि परिणामाध्यवसायस्थानान्तराणि गच्छतोऽनादिमिथ्यादृष्टेरपि सतः परिणामविशेषादपूर्वकरणं तादृग् भवति येनास्यानुपदेशातू सम्यग्दर्शनमुत्पद्यत इत्येतत् निसर्गसम्यग्दर्शनम् ॥ अधिगमः अभिगम आगमो निमित्तं श्रवणं शिक्षा उपदेश इत्यनर्थान्तरम् । तदेवं परोपदेशाद् यत् तत्त्वार्थश्रद्धानं भवति तदधिगमसम्यग्दर्शनमिति ॥
टी०–तदेतदिति । एतदित्युक्तेऽप्यनेकस्य विषयस्य प्रत्यक्षस्य एतच्छब्दवाच्यस्य सम्भवात् प्रकृतेन व्यवच्छेदं करोति-सम्यग्दर्शनमिति । निमित्तद्वयेनोपजायमानत्वाद् द्विविधमित्याह, न पुनरत्र मुख्यया वृत्त्या भेदः प्रतिपादयितुमिष्टः, कारणस्य पृष्टत्वादिति, तेनैव निमित्तद्वयेन व्यपदिशन्नाह-निसर्गसम्यग्दर्शनं अधिगमसम्यग्दर्शनं चेति । आत्मनस्तीर्थकराद्युपदेशदानमन्तरेण स्वत एव जन्तोर्यत् कर्मोपशमादिभ्यो जायते तत निसर्गसम्यग्दर्शनम् , यत् पुनस्तीर्थकराद्युपदेशे सति बाह्यनिमित्तसव्यपेक्षमुपशमादिभ्यो जायते तत् अधिगमसम्यग्दर्शनमिति, च शब्दो भिन्ननिमित्तप्रदर्शनपरो निसर्गसम्यग्दर्शनस्य निसर्ग एव प्रयोजनमितरस्य त्वधिगम एव, न पुनरेकस्यैव सम्यग्दर्शनोत्पत्तौ द्वयं निमित्तं भवतीति एतदेव वाऽ(चा?) समासकरणे प्रयोजनं चशब्देन द्योतितमिति, इतरथा ह्येवं वक्तव्यं स्यात् निसर्गाधिगमाभ्यामिति, वाशब्दोऽपि च न कर्तव्यो भवति एकस्यैवोभयरूपस्य निमित्तस्याश्रितत्वादिति । तदेवं लघुनोपायेन सिद्धेऽर्थे यद भिन्नविभक्तितां शास्ति तत् कथयति-भिन्ने खेल्वेते कारणे । अथ कथं तदेवं व्यपदिश्यते निसर्गसम्यग्दर्शनं कथं वाऽधिगमव्यपदेश प्रतिपद्यत इत्यत आह-निसर्गादधिगमाद वोत्पद्यत इति । इति तस्मादित्यस्यार्थे, यच्छब्दस्तु यत्तदोनित्यसम्बन्धादेव नीयते, यस्मानिसर्गादधिगमाच कारणादुपजायते तस्मात् तेनैव व्यपदिश्यते यवाङ्कुरवत्, यत्तदपूर्वकरणानन्तरभाव्यनिवृत्तिकरणं तत् निसर्ग इति भण्यते । तस्मात् कारणात् निसर्गाख्यादुत्पद्यते याऽसौ रुचिः सा कार्याख्या । तथा योऽसौ बाह्य उपदेशः स त(य?)त्र हेतुर्भवति तत उत्पद्यते या रुचिः सा तत्कार्या भवतीत्येवं कार्या रुचिः कारणं
१ 'खल्वेव ' इति क-ख-पाठः । २ सा तत्कार्याख्या' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org