________________
सूत्र ३]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
येsपि हि प्रकृष्टावरणकर्मपटलाच्छादिता निगोदादयः पञ्चैकेन्द्रिया जीवनिकायास्तेऽपि साकारानाकारोपयोगयुक्ता इति । यतः स्पर्शनेन्द्रियं हि तेषामस्ति, तच्च साकारानाकारोपयोगस्वरूपमतो व्यापिलक्षणम् । ज्ञानदर्शनोपयोगौ लक्षणमस्त्येतत् सूक्तमिति । इतिशब्दः एवकारार्थे, जीव एवोपयोगलक्षणो न परमाण्वादय इति । वक्ष्यते-अभिधास्यते, उपयोगलक्षणो जीव इत्यस्मिन् द्वितीयाध्यायवर्तिनि सूत्रे, अतो निर्ज्ञातस्वरूपस्य जीवस्य स निसर्गरूपः परिणाम इति । यदप्युक्तं कथं प्राप्यत इति, तत् कथयति - तस्यानादावित्यादिना । तस्येति निर्धारितस्वरूपं जीवमाह । तस्य जीवस्यानुभवत इत्यनेन निसर्गप्राप्तिरीतिः सहाभिसम्बन्धः । तथा स्थानान्तराणि गच्छतोऽनादिमिध्यादृष्टेरपि सत एतानि सर्वाणि जीवविशेषणानि । अनादौ संसार इत्यस्य तु नरकादि - भवग्रहणेष्वित्येतद् विशेषणम्, कर्मत एव कर्मणः स्वकृतस्येति त्रयाणां विशेषणविशेष्यता, बन्धनिकाचनोदयनिर्जरापेक्षं विविधं इत्येतद् द्वयं पुण्यपापफलमित्यस्य विशेषणम्, अनुभवत इत्यस्य तु हेतुग्रन्थोऽयं ज्ञानदर्शनोपयोगस्वाभाव्यादिति, तानि तानी - त्यादिपदद्वयं गच्छत इत्यस्य व्याप्यं कर्म एवं सम्बन्धे कथिते विवृणोति - अविद्यमान आदिरस्य सोऽयम् अनादिः, न खलु संसारस्यादिर्दृष्टः केवलज्योतिषाऽपि प्रकाशिते समस्वज्ञेय राशौ, अतस्तस्याभावादनुपलब्धिः, न तु ज्ञानस्याशक्तिग्रहणं प्रतीति । सन्धावन्ति यत्र स्वकर्मभिः प्रेर्यमाणा जन्तवः स संसार इति, उत्पत्तिस्थानानि नरकादीनि, निarastr तु सर्वं स्वप्रतिष्ठं वस्त्विति आत्मैव, त एव वा प्राणिनः सन्धावन्तस्तांस्तान् परिणामान्नारकादीन् संसार इति कथ्यते, अनादौ संसार इति च सृष्टिं निरस्यति । नहि कचिज्जगतः स्रष्टा कर्ता समस्ति पुरुषः, यथैव हि तेन केनचित् सृष्टा: प्राण्यादि ( 2 ) - मन्तस्तथाऽन्येऽपि प्राणिनः । कर्त्रन्तराभ्युपगमे चानवस्था । सति चोपकरणकलापे दलिकद्रव्ये च निपुणाः कुम्भकारादयः कार्योत्पादाय यतमानाः फलेन युज्यन्ते नान्यथा, न चाकाशादीनां कारणमुपलभ्यते किञ्चित् नापि किञ्चित् सर्गे जगतः स्रष्टुः प्रयोजनमस्ति प्रेक्षा पूर्वकारिणः । क्रीडाद्यर्थमिति चेत्, कुतः सर्गशक्तिः ? प्राकृतत्वात् । सुखितदुःखितदेवनारसच्योत्पादने चाकस्मिकः पक्षपातो द्वेषिता चेति । एवं कार्यकारणसम्बन्धः समवायपरिणाम निमित्त निर्वर्तका दिरूपः सिद्धिविनिश्चय-सृष्टिपरीक्षातो योजनीयो विशेषार्थिना दूषणद्वारेणेति । कर्मत इति पञ्चमी, ज्ञानावरणादिकाष्ट विधादुदयप्राप्तात् क्रोधाद्याकारपरिणाम हेतुकात् यद्यदन्यत् कर्मोपचितज्ञानावरणादि तस्य कर्मणः स्वकृतस्येति । तच्च कर्मतो यदुपादायि कर्म तत् स्वेनात्मना कृतं न पुनः प्रजापतिप्रभृतिना तत् कर्म संश्लेषितमात्मसामर्थ्यात् एतत् स्याद् यदाऽऽदिकर्म प्रजापतिरकरोत् सर्वप्राणिनां ततोऽन्या कर्मसन्ततिः स्वकृतेतीष्टमेव प्रसाधितमिति, उच्यते - एवमर्थमेवैवकारः प्रयुज्यते, कर्मत एव सर्व कर्म बध्यते, अनादित्वात् संसृतेरादिकर्मैव नास्ति,
जगत्कर्तृत्ववाद निरासः
Jain Education International
For Personal & Private Use Only
३७
www.jainelibrary.org