________________
सूत्रं १]
स्वोपज्ञभाष्य-टीकालङ्कृतम् च प्रतिपत्तव्यम् । किं तदिति चेत् , उच्यते-लाभनियम इति । पूर्वस्य लाभ इति सूत्रक्रममङ्गीकृत्य पूर्वस्य-सम्यग्दर्शनस्य लाभे-प्राप्तौ भजनीयं-विकल्पनीयं स्यात् वा न वेति, उत्तरं, ज्ञानं चारित्रं च, यतः देवनारकतिरश्वां मनुष्याणां च केषाश्चिदाविभृतेऽपि सम्यग्दर्शने न भवत्याचारादिकमङ्गप्रविष्टं ज्ञानम्, न वा देशसर्वचारित्रमिति । तथा प्राप्तेऽपि ज्ञाने केनचित् न चारित्रं नियमत एव प्राप्तव्यम्, तदावरणीयकर्मोदयादिति, सम्यग्दर्शनात अतः कैश्चिदेवं भाष्यमेतद् व्याख्यायि-परमार्थतो यस्मात् त्रीण्यपि सम्यग्ज्ञानस्य सम्यग्दर्शनादीनि भिन्नानीति । कथं हि भेदः सम्यग्दर्शनस्य __ भिन्नता ज्ञानादिति चेत, त एवं वर्णयन्ति पृष्टाः, कारणभेदात् स्वभावभेदादित्यादिना, कारणभेदस्तावदयम्, यतः सम्यग्दर्शनस्य त्रितयं कारणं समुत्पत्ती, क्षयोपशमः क्षयः उपशमश्चेति । ज्ञानस्य तु क्षयः क्षयोपशमो वा, यदि च न तयोर्भेदः किमिति दर्शनस्य त्रिविधं कारणम् इतरस्य द्विविधम् ? । तथा स्वभावभेदोऽप्यस्ति, यज्जैनेषु पदार्थेषु स्वतः परतो वा रुचिमात्रमुपपादि 'तदेव सत्यं निःशङ्कं यज्जिनैः प्रवेदितमुपलब्धं चेति । तथा विषयभेदोऽप्यस्ति, सर्वद्रव्यभावविषया रुचिः सम्यक्त्वं "सेव्वगयं सम्मत्तं " इति वचनात्, श्रुतज्ञानं तु सकलद्रव्यगोचरं कतिपयपर्यायावलम्बि चेत्येवं किल पारमार्थिकं भेदं पश्यद्भिर्भाष्यं व्याख्यातम् । अपरे तु, ज्ञानदर्शनयोः समीचोर्भेदमप्रेक्षमाणाः प्रभाषन्ते, एषां च पूर्वस्य द्वयस्य सम्यग्दशेनस्य सम्यग्ज्ञानस्य च लाभे-प्राप्तो, भजनीयं स्याद् वा न वेति, उत्तरं चारित्रम्, उत्तरस्य तु सूत्रक्रमोपन्यस्तस्य सम्यकचारित्रस्य लाभे नियतो निश्चितः पूर्वलाभ इति-पूर्वयोः सूत्रक्रमव्यवस्थितयोः सम्यग्दर्शनसम्यग्ज्ञानयोलोभः-प्राप्तिरिति, अन्यथा तत् सम्यक्चारित्रमेव न स्याद् यदि ताभ्यामनुगतं न स्यादिति ॥ ननु कथं कारणादिकं भेदं न पश्यन्ति ? । उच्यते-मतिज्ञानस्यैव रुचिरूपो योऽपायांशस्तत् सम्यग्दर्शनम् , ज्ञानादृतेऽन्यत् सम्यग्दर्शनं न समस्ति । कारणादिभेदस्त्वन्यथा व्याख्यायते, योऽसावुपशमोऽनन्तानुबन्ध्यादीनां स तस्य सम्यग्दर्शनस्योत्पत्तौ निमित्तं भवति, यथा केवलज्ञानस्योत्पत्तौ मोहनीयक्षयः, न पुनस्तदेव मोहनीयं केवलस्यावरणमिति शक्यमभ्युपगन्तुं, निमित्तं तु मोहनीयक्षयः तेनाक्षीणेन केवलस्यानुत्पत्तेः, एवमिहापि यावदसावनन्तानुबन्ध्यादीनामुपशमो न भवति न तावत् सम्यग्दर्शनपर्यायस्याविर्भावः, न पुनस्तदेवानन्तानुवन्ध्याद्यावरणं सम्यग्दर्शनस्य । किं पुनरावरणमिति चेत्, ज्ञानावरणमेव, तावचेदं क्षयोपशमं न प्रतिपद्यते यावदनन्तानुबन्ध्यादीनां नोपशमः समजनीति । अनन्तानुबन्थ्याधुपशमे सति तदुपजायत इत्युपशमसम्यग्दर्शनं भण्यते, स्वावरणक्षयोपशममङ्गीकृत्य क्षयोपशमजमेतदुच्यते, तस्मात् परत उपशमव्यपदेशो न स्वावरणापेक्षया इति । तथा स्वभावभेदः पूर्वपक्षवादिना योऽभ्यधायि तत्राप्येवं पर्यनुयोगः कर्तव्यः कोऽयमभिलाषो
१ 'श्रेष्ठाः' इति क-ख-पाठः । २ सर्वगतं सम्यक्त्वं (आव० नि०)। ३ 'प्रकाश्यते' इति क-ख -पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org