________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ रुचितत्त्वलक्षणोऽन्यो मत्याद्यपायांशं विरहय्येति । एवं विषयभेदोऽपि निराकार्य इति । तस्मात् ज्ञानस्यैव विशिष्टावस्थाऽन्यमतपरिकल्पिततत्त्वनिरासतो जिनवचनोनीतपदार्थश्रद्धानलक्षणा सम्यग्दर्शनव्यपदेशं प्रतिलभत इति न्याय्यम् । इदानीं सूत्रोपन्यस्तसम्यग्दर्शनाद्यवयवानां प्रतिविभागतः करोत्यर्थप्रतिपादनम्-तत्र सम्यगिति प्रशंसाओं निपात इत्यादिना । तत्रेत्यनेन सम्यग्दर्शनशब्दे ज्ञानादिषु च यः सम्यकशब्दः स किमान्तरमुररीकृत्य प्रवृत्तः ? नामाख्यातादीनां किमेतत् पदमिति पर्यनुयोगे सत्याह-सम्यगिति । इतिशब्दोऽर्थाद्वशुदस्य स्वरूपे स्थापयति, सम्यक्शब्द इत्यर्थः। प्रशंसा, अविपरीतता यथावस्थितपदार्थपरिच्छेदिता, साऽभिधेया वाच्याऽस्येति प्रशंसाथैः, निपात्यतेऽर्थावद्योतकतया निपातः । इदं च किल निसर्गसम्यग्दर्शनाङ्गीकरणाद् व्याख्यानमव्युत्पत्तिपक्षाश्रयं परिगृह्यते, यतस्तत्पूजिततरं स्वत एवोपजायमानत्वात्, तदितरत् तु यद्यपि तथैवाविपरीतार्थतया विषयमवच्छिनत्ति तथापि तत्र परसाहायिकमस्ति तदस्मिन् पक्षे नावश्यतया श्रितम् ।एवं तावत् प्रकृतिप्रत्ययमनालोच्य सम्यकशब्दार्थो निरूपितः, व्युत्पत्तिपक्षेऽप्यर्थप्रदर्शनायाह-समञ्चतेवो । सम्पूर्वादश्चतेः साध्यमेतद्रूपमिति, अर्थः पुनः गतिः पूजा वाश्रयणीयेति, तत्र पूजा पूर्वव्याख्या
___ नेन दर्शिता, इह तु गत्यर्थो वर्ण्यते, समञ्चति गच्छति व्याप्नोति सर्वान् शब्दार्थः
यक् द्रव्यभावानिति सम्यक् । कः कर्बर्थ इति चेत् यदेतद् दर्शनं रुचिरूपं तत् सम
- श्चति व्याप्नोति एवमेते जीवादयोऽर्थाः यथा नयसामग्र्या जैनैराख्यायन्ते, न पुनरेकनयावलम्बिसाङ्ख्यवत् प्रतिपद्यन्ते, नित्या एवैते, अनित्या इति वा शाकलिकचीवरकवत् , न सन्ति वा लौकायतिकवदिति, कथञ्चित्सन्ति (कथश्चिन् न सन्ति) कथञ्चिन्नित्याः कथश्चिदेवानित्याः द्रव्यपयोयनर्यद्वयप्रपञ्चापेक्षयेत्याविष्करिष्यामः पञ्चमाध्याये । एवं च तत्र यदा दृष्टिः प्रवर्तते तदा सम्यगिति कथ्यते । वाशब्दो विकल्पप्रदर्शनाय । एतस्मिश्च पक्षे किलाधिगमसम्यग्दर्शनं कथितम् , यतस्तदेव प्रायोवृत्त्या द्रव्यपर्यायनयसमालोचनेन गुरूपदेशपूर्वकमितिकृत्वा यथावदवगच्छति शास्त्राद्यभ्यासादिति । एवं सम्यक्शब्द निरूप्य सम्प्रति दर्शनशब्दार्थकथना, यतः अनेकस्मिन् कारके च ल्युट् सम्भाव्यते करणादिके पश्यति स तेन तस्मिस्तस्मादित्यादि, अतो विशिष्ट एव कारके भावाख्ये दृश्यत इत्यादिभावो दर्शनमिति । दृष्टिा अविपरीतार्थग्राहिणी जीवादिकं विषयमुल्लिखन्तीव प्रवृत्ता सा सम्यग्दर्शनम् । अथ किमर्थमन्यानि कारकाणि निरस्य भावकारकमादिदेश भाष्यकारः ? उच्यते-ज्ञानमेव तत् तादृशं मुख्यया वृत्त्या तथाऽवस्थितं, ये तु तत्र करणादिव्यपदेशास्त उपचरिता इति कृत्वा न तेष्वादर इति भावं दर्शितवान् । दृशेरिति । एतत्पूर्वेण वा सम्बन्धमुपयाति दृशेर्यदेतदर्शनमिति रूपमेतत् भावे भावाभिधायि प्रतिपत्तव्यम्, अथवा परेण दृशेः प्राप्तिरुपलब्धिर्वाच्या सा चैवंरूपा, अव्यभिचारिणीत्यादि । व्यभिचरत्यवश्य मिति
सप्रत्ययस
१ धनश्चिह्नितः अयं स्त्र--पाठः । २ 'नयप्रपञ्चा' इति क-ख-पाठः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org