________________
फलम्
तत्त्वार्थाधिगमसूत्रम्
[ अध्यापः १ च बहुत्वात् बहुषचनेनैव भवितव्यमिति। उच्यते-प्रेक्षापूर्वकारितानुमीयते सूत्रकारस्यैवम
भिदधतः, यतो मोक्षमार्गा इत्युक्ते एकैकस्यैतत्परनिरपेक्षस्य मोक्षं न प्रति साधनभावो गम्येत, न चैतदिष्टम् , यतः समुदितैरेव दर्शना
- दिभिः साध्या मुक्तिः न व्यस्तैरिति, एतदाह-एतानि च समस्तानि मोक्षसाधनानीत्यादि, । एतानि प्राक् प्रत्यक्षीकृतानि सम्यग्दर्शनादीनि व्यपदिश्यन्ते, चशब्दो हिशब्दार्थे निपातानामनेकार्थत्वात् हिशब्दश्च यस्मादर्थः । समस्तानि इति सर्वाणि, सम्यग्दर्शने सत्यपि यदि ज्ञानं न भवति तयोश्च सतोर्यदि क्रिया न विद्यते तत इष्टमर्थ न साधयति, रोगापनयनलक्षणमारोग्यमिव रोगिणः । यथा शारोग्यार्थिरोगिणः भेषजे रुचिस्तद्विषयं च परिज्ञानमिदमेवौषधमस्य व्याधेरपनयनकारि, सति चैतस्मिन् द्वये यदि सम्यग्ज्ञानपूर्विकायां पथ्याद्यभ्यवहरणक्रियायां विशेषेण वा प्रवर्तते ततोऽस्य रोगाः प्रणश्यन्ति नान्यथा, एवमिहापि त्रितयं समुदितं त्रिफलाद्युपदेशवत्सिद्धेः सकलकर्मक्षयलक्षणायाः साधनभावं बिभर्ति ॥ अर्थापत्त्या सिद्धेऽप्याह वचसा स्पष्टं अर्थापत्तिलभ्यफलप्रदर्शनाय । यथा-एकतराभावेऽप्यसाधनानीत्यतस्त्रयाणामित्यादि । सम्यग्दर्शनादीनां त्रयाणां एकतरस्याप्यभावेऽलाभे, असाधनानि-अनिवर्तकानि, अस्मात् कारणात् त्रीण्यपि मोक्षमार्गशब्दः समुदितान्यभिधेयीकृत्य प्रवृत्त इत्येकत्वात् तस्य समुदायस्यैकवचनमेव न्याय्यमिति, अतस्त्रयाणां सम्यग्दर्शनादीनां ग्रहणमाश्रयणं मोक्षार्थिना कार्यमिति । एकतराभावेऽप्यसाधनानीत्यमुं ग्रन्थमपुनरुक्तं मन्यमाना गुरवः कथयन्त्येवं-उपात्तं साध्यं मोक्षं न साधयन्ति व्यस्तानि, यत्पुनः प्रत्येकमेषां साध्यम् तत्साधयन्त्येव, यथा सम्यग्दर्शनस्य देवलोकप्रापणसामर्थ्य, ज्ञानस्य ज्ञेयपरिच्छेदः, क्रियायाः
शुभाशुभकर्मादानं देशक्षयो वा कर्मणामिति । अथवा विवरणग्रन्थेषु न बहूनां कारणता गुरुलाघवं प्रत्याद्रियन्ते सूरयः, अर्थापत्त्यनभिज्ञानामप्युपदेशप्रवृत्तेः ।
अथवा एतानि चेत्यन्यथा ख्याप्यते, य एवं चोदयन्ति किमर्थमिति बहु मोक्षकारणतयाऽभ्युपेयन्ते सम्यग्दर्शनादीनि, न पुनर्यथा साङ्ख्यादिभिर्ज्ञानमेव केवलं मुक्तिकारणमभ्युपगम्यते, यतः “पञ्चविंशतितत्त्वज्ञ" इत्यादि कथयन्ति । उच्यते-न केवलं ज्ञानं मुक्तेः कारणं पर्याप्त, क्रियारहितत्वात् पङ्गवत्, न च क्रियामात्रम्, विशिष्टज्ञानरहितत्वात् अन्धवत्, अतोऽभ्युपेहि समस्तानि सम्यग्दर्शनादीनि मोक्षकारणान्येकतराभावेऽप्यसाधनानि अतः कारणात् त्रयाणां ग्रहणं कृतम् ॥अथ यदा दर्शनादीनामेकं प्राप्तं भवति तदा परस्यावस्थानमस्ति ? नास्तीत्याह-भजना कार्या । अत्र तां दर्शयति-एषां च पूर्वस्य लाभे भजनीयनुत्तरं, उत्तरलाभेतु नियतः पूर्वलाभ इत्यादि । एषामिति, दर्शनादीनां सूत्रो. क्तानाम्, चशब्दः समुच्चये । कथमिति चेत् , यथैव समस्तानां मुक्तिहेतुता प्रतिपन्ना एवमिदमपि
__१ 'एकैकस्येतरनि.' इति ख-पाठः । 'एकैकस्यैतस्य तत्परनि०' इति ग-पाठः । २ 'साधयन्ति' इति ग-पाठः । ३'विशेषणे' इति ग-टी-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org