________________
सूत्र ३५) स्वोपज्ञभाष्य टीकालङ्कृतम्
४२५ व्यावर्तयति बन्धं च विशेषयतीति । न जघन्यगुणानामिति प्रकृतप्रतिषेधस्तं व्यावर्तयति, यथाऽधिकृतं च बन्धं विशिनष्टि, गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवतीत्येविशेषणार्थः, ततश्च व्यावृत्ते प्रतिषेधे बन्धे च विशेषिते अधिकादिगुणानां बन्धः सिद्धो निरपवाद इति ॥ आगमगाथासंवादी चायं सूत्रचतुष्टयाथे:"निद्धस्स निद्रेण दुआधिएण, लुक्खस्स लुक्खेण दुआधिएण । निद्धस्स लुक्खेण उवेति बंधो, जहण्णवज्जो विसमे समे वा॥१॥"-प्रज्ञा० गा० २०० __ गुणवैषम्ये सदृशानां व्यधिकादिगुणानां तु बन्धो भवतीत्यस्य वाचकं गाथाशकलमाद्यं, स्निग्धस्य स्निग्धेन सह रूक्षस्यापि रूक्षेण सहेति, ततश्च "गुणसाम्ये सदृशानां" (सू० ३४) भवति बन्ध इत्येतत् सूत्रं लब्धम् । अथ स्निग्धरूक्षयोः परस्परेण कथमित्याह-पाश्चात्यमधेम् । एतेन च "स्निग्धरूक्षत्वाद् बन्धः" (सू० ३२), "न जघन्यगुणानाम्" (सू० ३३) इति सूत्रद्वयपरिग्रहः । स्निग्धगुणरूक्षयोश्च जघन्यगुणवर्जः परस्परेण विषमगुणयोः समगुणयोश्च बन्धो भवतीति ॥३५॥
भा०-अत्राह-परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेषु आहोस्विव्यवस्थिता इति । अत्रोच्यते-अव्यवस्थिताः । कुतः१ परिणामात्। अत्राह-बयोरपि बध्यमानयोगुणवत्त्वे सति कथं परिणामो भवतीति ॥ उच्यते
टी०-अत्राह-परमाणुष्वित्यादिना ग्रन्थेन सूत्रं सम्बधाति । अत्रेत्यौत्सर्गिके बन्धलक्षणे सापवादे प्रतिपादिते पृच्छत्यजानानः, परिणामविशेषो हि बन्धः, स च स्निग्धे रूक्षलक्षणपरिणामान्तरापाद्यः, अतः परमाणुषुये स्पर्शादिगुणपरिणामाः स्कन्धेषु वा शब्दादयस्ते किं नित्याःसर्वदा व्यवस्थितास्तेषु परमाण्वादिष्वाहोस्विव्यवस्थिता-भूत्वा पुनर्न भवन्तीति । अयमभिप्रायः प्रश्नयितुः-परमाणवः संहन्यमाना द्विप्रदेशादिकस्कन्धाकृत्या परिणमन्ते परिमण्डलादिपश्चप्रकारसंस्थानरूपेण वेति. तत्र यदि व्यवस्थिताः परमाणुषु परिणामाः स्पर्शादयः स्कन्धेषु वा स्पशादिशब्दादयस्ततस्तेषां व्यवस्थितत्वात् सर्वदा नोत्पादो न विनाशः, तौ चान्तरेण स्निग्धरूक्षगुणयोरण्वोः परिणामाभावे तदवस्थयोः कुतो घणुकादिस्कन्धपरिणाम:! स्कन्धेषु वा स्पर्शादिशब्दादिपरिणामस्यैकस्यैव नित्यतयेष्टत्वात् शेषस्पर्शादिशब्दादिपरिणामामाबः। अथाव्यवस्थिताः,सर्वमिष्यमाणमुपपन्नम्, पूर्वकपरिणामत्यागेनोत्तरपरिणामान्तराभ्युपगमे स्पर्शादयोऽन्ये चान्ये च स्पर्शादिशब्दादयश्च क्षेत्रकालद्रव्यभावपरिणाम विशेषाः स्युरित्यवगम्येत यथापरिणामं वस्त्विति, तन जाने कथमेतदिति, सति चाप्यव्यवस्थितत्वे किं समगुणः समगुणतयैव परिणमयत्युत विषमगुणतयाऽपीति सन्दिहानं प्रतीदमत्रोच्यते-अव्यव१. स्निग्धस्य स्निग्धेन द्वयाधिकेन, रूक्षस्य रूक्षेण द्वयाधिकेन ।
स्निग्धस्य रूक्षेणोपैति बन्धो, जघन्यव| विषमः समो वा ॥ २. पातोत्थः' इति क-पाठः। 'विषमतया' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org