SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४२६ तत्वार्थाधिगमसूत्रम् [ अध्यायः ५ स्थिताः परमाणुस्कन्धेषु स्पर्शादयः, स्पर्शादिशब्दादयश्चेति, अनवस्थितत्वे प्रतिज्ञाते पुनः प्रश्नयति-कुतः पुनरनवस्थितत्वम् ? एवं मन्यते-किं प्रतिज्ञामात्रेणानवस्थितत्वमुत काचिद् युक्तिरप्यस्तीति ? एवमाशङ्किते युक्तिमाह-परिणामादिति । "तद्भावलक्षणः परिणामो" वक्ष्यते (सू० ४१), स एव हि परमाणुः स्कन्धो वा द्रव्यत्वादिजातिस्वभावमजहत स्पर्शान्तरादिगुणं शब्दान्तरादिगुणं प्रतिपद्यते, स्पर्शादिसामान्यमहतः परमाण्वादयः स्पर्शादिविशेपानासादयन्ति, अतोऽवस्थितानवस्थितत्वमेपां स्पर्शादीनाम्, परिणतारो हि स्वशक्तिणटवभाजो मरिचलवणहिङ्ग्वादयः परिणम्यं वस्तु कथिततक्रादिस्वाद्वाद्याकारेणात्मसात्कुर्वन्तो दृष्टाः, केचित् तु दधिगुडादयः परिणमनशक्तिस्वाभाव्यात् परस्परपरिणतिहेतवः, पूर्वेषामेकतः परिणतिशक्तिः पाटवातिशयात, एवं परिणामादनवस्थिताः स्पर्शादिशब्दादयः, परिणामानवस्थितत्वे प्रतिपादिते लब्धावकाशः पुनः अत्राह-द्वयोरपि बध्यमानयोगुणवत्त्वे सति कथं परिणामो भवतीति । एवं मन्यते-भवतु परिणतिविशेषादनवस्थितं गुणवत्त्वम्, अण्वोस्तु बध्यमानयोगुणवत्त्वे सति तुल्यगुणयोर्विषमगुणयोर्वा सङ्ख्यया द्विगुणस्निग्धस्य द्विगुणरूक्षस्य वेत्यादेस्तथैकगुणस्निग्धस्य त्रिगुणस्निग्धस्य चेत्यादेरेकगुणरूक्षस्य त्रिगुणरू. क्षादेः कथं-केन प्रकारेण परिणामो भवति । अयमभिप्रायः-किं द्विगुणस्निग्धो द्विगुणरूक्षं स्नेहात्मतया परिणमयत्युत द्विगुणरूक्षो द्विगुणस्निग्धं रूक्षात्मतया परिणमयतीति ? एवं शेषविकल्पा द्रष्टव्याः । तथा किमेकगुणस्निग्धस्त्रिगुणस्निग्धमात्मसात्करोतीत्येवं त्रिगुणस्निग्धा एकगुणस्निग्धमित्यादिसन्देहविच्छेदायात्रोच्यते सूत्रम् बन्धे समाधिकौ पारिणामिकौ ॥ ५-३६ ॥ टी-बन्धनं बन्धः-संयोगः, समः-तुल्यः, स च गुणतः परिगृह्यते, एवं च यस्यासौ समस्तस्येतरोऽपि समो भवति, अधिकगुणोऽपि यदपेक्षयाऽऽधिक्यं लभते स हीनः, सूत्रे च साक्षात् समाधिको पारिणामिकावेव गृहीतो, न तु परिणाम्यः समो हीनगुणो वेत्यतो बन्धशब्दोपादानादिष्टलाभः, सम्बन्धो हि यादिवृत्तिरित्युक्तम्, एवं च द्वितीयः समो हीनश्च सामर्थ्याद् बन्धपरिप्रापित इति, एतदेव भाष्येण दर्शयति ___ भा०-धन्धे सति समगुणस्य सैमगुणपरिणामको भवति । अधिकगुणो हीनस्पेति ॥ ३६ ॥ टी-सति बन्धे-सङ्घद्धलक्षणे विस्रसाद्वारेण तुल्यगुणो द्विगुणस्निग्धस्तुल्यगुणस्तद्विगुणरूक्षस्य परिणामक:-स्वमतेन स्नेहगुणेन रूक्षगुणमात्मसात्करोति, एवं रूक्षगुणः १' जहन्तः' इति ग-पाठः। २ 'शक्तिपाटवा' इति क-पाठः। ३ ' णामको' इति क-स-पाठः । । 'समगुणः परि०' इति प्रतिभाति । ५ 'गुणस्य द्विगुणः' इति प्रतिभाति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy