SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४२४ तत्वार्थाधिगमसूत्रम् सूत्रम् - द्र्यधिकादिगुणानां तु ॥ ५-३५ ॥ भा०-- द्वयधिकादिगुणानां तु सदृशानां बन्धो भवति । टी० - ह्यधिकादिगुणानां तु सदृशानां बन्धो भवतीत्यादि भाष्यम् । द्वाभ्यां गुणविशेषाभ्यामन्यस्मादधिको यः परमाणुः स आदिर्येषां ते व्यधिकादिगुणाः । गुणशब्दोऽत्र गुणिवचनः । गुणवन्तो गुणाः परमाणव इत्यर्थः । तेपां व्यधिकादिगुणानामणूनां सदृशानां बन्धो भवति, सदृशानामिति स्नेहसामान्यं रूक्षसामान्यं चाश्रित्य सादृश्यं व्याख्येयम् । भा०—तद्यथा — स्निग्धस्य द्विगुणाधिकस्निग्धेन द्विगुणाद्यधिकस्निग्धस्य एक गुणस्निग्धेन, रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण, द्विगुणाद्यधिकरूक्षस्य एकगुणरूक्षेण, एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति । अत्र तुशब्दो व्यावृत्तिविशेषणार्थः, प्रतिषेध व्यावर्तयति बन्धं च विशेषयति ॥ ३५ ॥ [ अध्याय: ५ Jain Education International , , टी० - तद्यथा - स्निग्धस्येत्यादिनोदाहरति । [एकगुण ]स्निग्धस्येत्यनुक्तेऽपि सङ्ख्या गम्यते गुणश्च सामर्थ्यात्, द्विगुणाद्यधिकस्निग्धेनाणुना, द्वाभ्यां स्नेहगुण विशेषाभ्यामेकगुणस्निग्धादधिको यस्तेन सहास्ति बन्धः, यथैकगुणस्निग्ध एकस्तदन्यस्त्रिगुणस्निग्धः, अत्रैकगुणस्निग्धस्यैकः समानो गुणस्त्रिगुण स्निग्धे (स्कन्धे) अणौ वा शेषेण गुणद्वयेनाधिकः, द्विगुणाद्यधिकस्निग्धेनेत्यादिग्रहणादेकगुणस्निग्धस्य चतुर्गुणपञ्चगुणस्निग्धेनापि बन्धसिद्धिः, तथा द्विगुणाद्यकिस्निग्धस्यैकगुणस्निग्धेन सह बन्धसम्भवः । ननु च प्रथमविकल्पान्नास्ति कचिद् विशेषोऽस्य स्फुट:, सत्यं, न कश्चिद् भेद:, तथापि तु बन्धो व्यादिवृत्तिः, तत्र बध्यमानयोर्वध्यमानानां वा षष्ठयन्तत्वे तृतीयान्तत्वे वा बन्धाविशेष इति प्रतिपत्त्यर्थमुभयथोच्चारणं चकार भाष्यकारः ॥ रूक्षस्यापीत्यादिभाष्यमुक्तप्रकारेणैव गमनीयम् एवं व्यधिकादिगुणानां स्नेहवतां रौक्ष्यवतां च यथोक्तलक्षणो बन्धो भवतीत्युच्यते, प्रतिषेधव्यावृत्तिप्रदर्शनार्थं भवति तुशब्दोपादानम् । व्यधिकादिगुणानां बन्धाभ्यनुज्ञाने चार्थापत्तिलभ्यफलप्रदर्शनार्थमिदमाह – एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति, प्रतिविशिष्टपरिणतिशक्तेरभावात्, एकगुणस्निग्धयहि द्विगुणस्निग्धोऽणुरेकगुणाधिकः, द्विगुणस्निग्धस्य त्रिगुणस्निग्ध एकगुणाधिकः, त्रिगुणस्निग्धस्य चतुर्गुणस्त्रिग्ध एकाधिक इत्यादि यावदनन्तगुण एकाधिक इति, एवं रूक्षस्यापि वाच्यम्, एकादिगुणाधिकयोरित्यत्रादिग्रहणाद् द्विगुणस्य त्रिगुणेन सह नास्ति बन्धः, तत्रापि द्विगुणकगुणाधिकति द्विवचनम्, एवं शेषविकल्पयोजनमपि कार्यम्, तुशब्दः कैमर्थक्यात सूत्र इत्याशङ्किते भाष्यकृद्दाह - अत्र तुशब्दो व्यावृत्तिविशेषणार्थः । तुशब्दस्यानेकार्थवृत्तित्वे सत्यप्यत्र सूत्रे व्यावृत्तिर्विशेषणं चोभयमर्थः परिगृह्यते, व्यावृत्तिश्च विशेषणं च व्यावृत्तिविशेषणे अर्थस्ते यस्य स तथोक्तः, तत्र व्यावृत्तिः - निवृत्तिः, विशेष्यतेऽनेनेति विशेषणं, तदर्थो यस्यासौ व्यावृत्तिविशेषणार्थः, कस्य पुनर्व्यावृत्तिः किं वा विशेष्यमाणमित्याह - प्रतिषेधं For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy