________________
सूत्र ३४ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
४२३
रूक्षादिसमगुण विकल्पसङ्ग्रहार्थः । तुल्यगुणः स्निग्धो यस्य स तुल्यगुणस्निग्धः, तुल्यः स्नेहगुणो यस्येत्यर्थः, तस्यानेन सदृशेनैव तुल्यगुणस्निग्धेन बन्धो नास्ति, परस्परं परिणतिशक्तेरभावात्, तुल्यबलगुणमल्लद्वयान्योन्यानभिघातवद्, एकगुणस्निग्धो हि नैकगुण स्निग्धेन बध्यते, तथाऽनन्तपर्यवसानाद् द्विगुणादिस्निग्धाः द्विगुणादिस्निग्धैः समगुणैरनन्तपर्यवसानैः सह न बध्यन्ते, एवमेकगुणरूक्षोऽप्येकगुणरूक्षेण सह न बध्यते तुल्यदुर्बलगुणमल्लद्वयान्योन्यानभिघातवदेव, तथा द्विगुणादिरूक्षा न द्विगुणादिरूक्षैरनन्तावसानैः सह बन्धमनुभवन्तीति ॥
भा०—अत्राह — सदृशग्रहणं किमपेक्षत इति १ । अत्रोच्यते - गुणवैषम्ये सदृशानां बन्धो भवतीति ॥ ३४ ॥
"
टी० - अत्राह - सद्दशग्रहणं किमपेक्षत इति । एवं मन्यते प्रष्टा, गुणसाम्ये सति बन्धो न भवति, येषां च समा गुणाः प्रकर्षापकर्षवृत्ताः प्रतिविशिष्टसङ्ख्यावच्छिआस्ते नियमेन गुणैः सदृशाः इत्येतावताऽभिलषितेऽर्थे सिद्धे सदृशग्रहणमतिरिच्यमानमपरार्थापेक्षि भवति, तं चापरमर्थमजानानः प्रश्नयति — किमपेक्षते सदृशग्रहणमिति, आचार्योऽपि विशिष्टार्थप्रतिपत्तये सदृशग्रहणं चेतसि निधायाह - अन्नोच्यत इति । गुणवैषम्ये सदृशानां धन्धो भवतीति स्नेहगुणवैपम्ये रूक्षगुणवैषम्ये च बन्धः समस्ति, केषामत आह— सदृशानामिति । एनमर्थं सदृशग्रहणमपेक्षते, सादृश्यं च स्नेहगुणमात्रनिबन्धनं रौक्ष्यगुणमात्र निबन्धनं च सङ्ख्यानमाश्रित्य ग्राह्यम्, अतः सदृशानामपि स्नेहगुणसामान्येन रौक्ष्यगुणसामान्येन च प्रकर्षापकर्षवृत्ततद्गुणवैषम्ये सति भवत्येव बन्धः, तद्यथा - एकगुणस्निग्धस्त्रिगुणस्निग्धेन, द्विगुणस्निग्धश्चतुर्गुणस्निग्धेन, त्रिगुणस्निग्धः पञ्चगुणस्निग्धेन, चतुर्गुणस्निग्धः षड्गुण स्निग्धेनेत्येवं यावदनन्तगुणस्निग्धो विषमगुण इति । अन्ये त्वभिदधति सूरयः एक गुण स्निग्धस्य द्विगुणस्निग्धेनैकगुणरूक्षस्य द्विगुणरूक्षेणेति भावनीयम्, एतच्च सम्प्रदायेनागमोपनिबन्धदर्शनेन च प्रायो विसंवदति इत्यनादरः ॥ ३४ ॥
भा० - अत्राह - किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति ? । अघोच्यते
टी० - अाहेत्यादिः सम्बन्धप्रतिपादनपरो ग्रन्थः, किमविशेषेण गुणवैषम्ये सहशानां बन्धो भवतीति, यद्यविशेषेण तत एकगुणस्निग्धस्य द्विगुणस्निग्धेनापि बन्धप्रसङ्गोऽनिष्टं चैतदा(दित्या १ ) रेकमाणे प्रष्टरि सूरिराह - अत्रोच्यत इति, न सर्वेषामेव, शानां किं तर्हि ?
१-२ ' न्याभिघात ० ' इति गं-पाठः । ३ 'सामान्यगुणेन' इति ग-पाठः । ४ 'तवि' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org