________________
४२२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ स्निग्धैश्च रूक्षाणां परस्परेण बन्धो भवति इति, अर्थापत्तिलभ्योऽयमर्थः सामर्थ्यादवगम्यते, स च यादृशो यथा च भवति तं तादृशं तथा वक्ष्यामः, इहैतावदुपयुज्यत इति ॥ ३३ ॥
भा०-अत्राह-उक्तं भवता-जघन्यगुणवर्जानां (स्निग्धानां) रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति । अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति । अत्रोच्यते-न जवन्यगुणानामित्यधिकृत्येदमुच्यते___टी०-अत्राहेत्यादिना ग्रन्थेन सम्बन्धं विधत्ते । प्रतिपादितं भवताऽनन्तरं जघन्यगुणस्निग्धरूक्षयोर्नास्ति बन्धः, तनिषेधादन्येषां जघन्यगुणवर्जानां बन्धप्रसङ्गे सदृशानां प्रतिषेधे यत्नो विधेय इत्यापत्तिप्रापितं चेदं द्विगुणनिन्धस्यैकगुणरूक्षेण सह एकगुणस्निग्धस्य द्विगुणरूक्षेण सह बन्धो भवतीति । एतदुक्तं भवति-निकृष्टस्निग्धरूक्षयोर्बन्धप्रतिषेधान्सध्यमोत्कृष्टस्निग्धरूक्षगुणानां परस्परेण बन्धः प्रतिज्ञातोऽर्थतः पृथगधिकरणानाम् । अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति प्रश्नयति, प्रस्तुतानन्तरवचनोऽयमथशब्दः, तुल्यगुणयोः स्निग्धाधिकरणयोरेकैकगुणयोः किमेकान्तेनैव प्रतिषेध इति प्रश्ने कृते अत्रोच्यत इत्याह । अत्यन्तप्रतिषेध एव, काधिकृत इति चेदित्याह, न जघन्यगुणानामित्यधिकृत्येमुच्यते, यथैव स्निग्धरूक्षाणां जघन्यविषयाणां बन्धाभावस्तथैव गुणसाम्ये सदृशानां बन्धाः भाव इति सम्बन्धनीयम् । अथवा स्निग्धरूक्षयोर्भिनाधिकरणयोर्बन्धप्रतिषेधः कृतोऽथ तुल्यगुणयोः किं प्रतिपत्तव्यमिति सामादध्याहारं कृत्वा व्याख्येयम् , तुल्यगुणयोः स्निग्धाधिकरणयो रूक्षाधिकरणयोर्वा किं बन्धनिषेधः प्रतिपत्तव्यः, आहोस्विद् बन्धविधिरिति । आचार्य आह-अत्यन्तप्रतिषेध इति, एकान्तेनैव प्रतिषेधः, स पुनर्न जघन्यगुणानामित्यत्र सूत्रेऽधिकृतस्तमाश्रित्योच्यते
सूत्रम्-गुणसाम्ये सदृशानाम् ॥ ५-३४ ॥ टी०-अथवा स्निग्धरूक्षगुणः ॥
भा०-गुणसाम्ये सति सदृशानां बन्धो न भवति । तद्यथा-तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन, तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति ॥
टी०-गुणसाम्ये सतीत्यादि भाष्यम् । गुणाः-स्निग्धरूक्षास्तेषां समता साम्यं तस्मिन् गुणसाम्ये, सतीत्यनेन विशिष्टार्थी सप्तमी सूचयति, “यस्य च भावेन भावलक्षणम्" (पा०अ०२, पा०३,सू०३७)इति निमित्तसप्तम्येषा, सति गुणसाम्ये तुल्यसङ्ख्यत्वे सदृशानां बन्धो न भ. वति, गुणानां साम्येन ये सदृशाः, न क्रियासाम्येन, ते सति गुणसाम्ये सदृशास्तेषांबन्धो नास्ति, पूर्वापवादविशेषसमर्थनार्थमेवेदं न जघन्यगुणानाम् (सू० ३३) इत्यभिधाय तद्विशेषमपवदते, तं चापोद्यमानमुदाहरणेन स्पष्टयति । तद् यथेत्युदाहरणोपन्यासः, तुल्यगुणस्निग्धस्य तुल्य. गुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरुक्षेणेति सामान्योपन्यासः समस्तैकगुणस्निग्ध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org