________________
३९० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ पृथग्भूतरूपाणामत्यन्तभिन्नकालानां च नैकत्वं दृष्टम् , यो वाऽद्य जनित्वा प्रियते यश्च वर्षशतं जीवित्वा मरणमनुभवति न तयोस्तुल्यकालता युक्ता, तथा न घटोत्पादकाल एव विनाशकाल:, क्रियाफलानाश्वासप्रसङ्गात् , यदि घटरूपनिवृत्यनन्तरमेव घटस्य विनाशः ततः क्रियाफले घटे स्यादनाश्वासः, विनष्टेन तेन घटकार्याकरणात् , तस्माद् भिन्नकालावुत्पादविनाशौ । तथार्थान्तरमुत्पादस्थितिभङ्गाः परस्परतः स्वलक्षणभेदात् , आत्मलाभात्मावस्थानात्महानिस्वभावाः खल्वेते, यत्र च स्वलक्षणभेदस्तत्राथोन्तरता दृष्टा घटपटादिषु, यत्र चानथोन्तरता न तत्र स्वलक्षणभेदः, यथैकलक्षणवर्तिनि रूप इति । एवं भिन्नाभिन्नकालतो. त्पादादीनामन्तिरत्वमनर्थान्तरता च स्याद्वादप्रक्रियायां सकलप्रमाणाविरोधिनी सिध्यति, नैकान्तवादेषत्पादादयः सम्भवन्ति, भेदाभेदादिलक्षणानभ्युपगमात् । तस्मादवस्थितमिदम्उत्पादव्ययध्रौव्ययुक्तं सदिति ॥ २९ ॥
एवं प्रपञ्चतः संल्लक्षणमुपपाद्योत्तरसूत्रसम्बन्धाय ग्रन्थमुपचिक्षेप भाष्यकार:
भा०-अत्राह-गृह्णीमस्तावदेवंलक्षणं सदिति, इदं तु वाच्यं-तत् किं नित्यमाहोस्विदनित्यमिति ? । अत्रोच्यते
टी०-अत्राहेत्यादि । अत्रावसरे परः प्रश्नयति, प्रतिपादितसल्लक्षणानुमोदनाद्वारेण गृहीमस्तावदेवंलक्षणं सदित्येवंविधस्य सत्त्वमनुमन्यामहे युक्यागमभाजः, तावच्छब्दः प्रक्रमावद्योतनार्थः, पूर्वमेव सत्त्वं निश्चयम् , निश्चिते सत्त्वे पश्चानित्यताऽनित्यता च चिन्त्या, एवं लक्षणमस्येत्युत्पादादित्रययोगमुल्लिङ्गयति । इतिशब्दो हेत्वर्थः । यस्मात सत तस्मात् इदं तु वाच्यं-तत् किं नित्यमाहोस्विदनित्यमिति? तुशब्दस्तस्मादित्यस्यार्थमभिधत्ते, तदिति सतः परामर्शः, तत् सत् किं नित्यमनित्यमिति, सप्तसु विकल्पेषु सति सम्भवत्सु प्रश्नद्वयोपन्यासः किमर्थ इति चेत्, उच्यते-द्रव्यास्तिकनयपर्यायास्तिकसम्परि
ग्रहार्थः, तत्सम्परिग्रहाच शेषविकल्पसूचनमवसेयम्, कुतः पुनरियउत्पादादेनित्या- मारेका प्रष्टुः १ उच्यते-सतां नित्यानित्यत्वदशेनात् , सद् व्योमादि नित्यत्वे
नित्यं दृष्टं सच घटादि अनित्यमतः सन्देहः । अथवा आदाविदमुक्तम्-"नित्यावस्थितान्यरूपाणि" (अ० ५, सू० ३) इति तत्रैवं मन्यते-न सर्व सन्नित्यमरूपग्रहणात् रूपवतस्त्वनित्यत्वमर्थादतो न सत् सर्व नित्यं नाप्यनित्यमितीष्यतेऽवस्थित्यंशाङ्गीकरणेन रूपवदपि नित्यम् । यथाऽऽह भगवान्-" से जहा णामए पंचत्थिकाया सिया" इत्यादि सूत्रम् ॥ अन्यथा तूत्पादव्ययध्रौव्ययुक्तं सदित्यव्यापि सल्लक्षणं स्यात् , अत इदं तु वाच्यम्-तत् किं सर्वथा नित्यमाहोस्वित् स्थित्यंशसमाश्रयणेनैव नित्यमिति ? । आचार्यस्तु स्थित्यंशमभिप्रेत्याह-अनोच्यते ॥
१'सल्लक्षण' इति ग-पाठः। २ अथ यथा नाम पनाम्तिकाया: म्यात ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org