SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् सूत्रम् - तद्भावाव्ययं नित्यम् ॥ ५-३० ॥ " टी० – तदित्यनेनाभिसम्बध्यते सत्, तस्य -सतो भवनं - भावस्तद्भावः, कर्तरि षष्टी, तदेव हि सत् तथा तथा भवति जीवादि देवादिरूपेण, न जातुचित् सवत्यागेनान्यथा भवति, तद्भावादव्ययं तद्भावाव्ययम् अविनाशि नित्यं नित्यग्रहणात् धौव्यांशपरिग्रहः, " नेर्धवे त्यप् " ( सिद्ध० अ० ६, पा० ३, सू० १७ ) इति वचनात् स ह्यन्वयी द्रव्यास्तिकांशः सर्वदा सर्वत्र न विच्छिद्यते, सदाकारेणानुत्पत्तेरविनाशाच्च, भावशब्दोपादानात् परिणामनित्यता गृह्यते, कूटस्थनित्यता त्यज्यते, अन्यथा ' तदव्ययं नित्य' मिति सूत्रं स्यात् । यत् तु न केनचिदाकारेण विक्रियते तदनुपाख्यमेव भवेत्, सच्चं च सर्वेषामन्वयिनां धर्माणां सूचकम्, पञ्चास्तिकायव्यापित्वात् तु सच्च परिग्रहः, साक्षाज्जीवस्तावत् सत्त्वं चैतन्यममूर्तत्वमसङ्ख्येयप्रदेशत्वं चाजहत् तथातथापरिणामान्न व्यगात् न व्येति न व्येपत्य विनाश्यव्ययो नित्य उच्यते, न पुनर्देवादिपर्यायेणाप्यनन्वयिना नित्यता ध्रौव्यमस्य विद्यते, तथा परमाणु यणुकादिपुद्गलद्रव्यं सभ्वमूर्तत्वाजीवत्वानुपयोगग्राह्यादिधर्मानपरित्यजद् विवर्तते न घटादिपर्यायविवक्षया धौव्यम्, धर्मद्रव्यमपि सत्त्वामृर्तत्वासङ्ख्येयप्रदेश व त्त्व लोकव्यापित्वादिधर्मात्यानावतिष्ठते, न तु परमाणुदेवदत्तादीनां प्रत्येकं गन्तृत्वस्य विवक्षायां गत्युपकारित्वेन नित्यत्वम् गन्तृभेदाद्धिगत्युपकारित्वं भिद्यते अन्यादृशाकारेण पूर्वः परिणामोsन्याशेनाकारेण पाश्चात्यः, नहि प्रथमतरमुत्पन्नो गत्युपकारित्वपरिणामः सर्वदाऽवतिष्ठते, स्वरूपव्यतिरिक्तेवस्तुसम्बन्धितयोपजायमानस्वाद् घटादिवत्, एवमधर्मद्रव्यमपि द्रष्टव्यम्, स्थित्युपकारितया चानित्यत्वभावना, आकाश तु सच्चा मूर्तत्वानन्तप्रदेशच्चादिधर्मद्वारेण नित्यम्, अवगाहका पेक्षयाऽवगाहदातृत्वेनानित्यम्, यत्राप्यवगाहकं जीवपुंगलं नास्ति तत्राप्यगुरुलघ्वादिपर्यायवत्तयाऽवश्यं तयैवा नित्यताऽभ्युपेया ते त्वन्ये चान्ये च भवन्ति, अन्यथा तत्र न स्वत उत्पादव्ययौ नाप्यापेक्षिकाविति न्यूनमेव सल्लक्षणं स्यात्, इमामेव परिणामनित्यतां भाष्येण दर्शयति भा०- यत् सतो भावान्न व्येति न व्येष्यति तन्नित्यमिति ॥ ३० ॥ सूत्र ३० ] द्रव्यस्य निरयता टी० - यत् सत इत्यादि । सच्चादेरन्वयिनोंऽशान्न व्येति न विनश्यति नापि विनङ्क्ष्यति तन्नित्यम्, किं पुनः कारणमप्रवृत्तः कालो नोदाहृतः १ । एवं मन्यते भाष्यकारः - नातीसप्रत्याख्याने वर्तमानः सम्भवति, वर्तमानावधिक मेवातीतत्वम् अतीतासच्चे निर्मूलस्य वस्तुनोऽनुत्थानप्रसङ्गात् तस्मादनादि जीवादि सच्चादि, एवं तर्हि भविष्यतो ग्रहणं किमर्थम् १ अत्राप्येवं मन्यते–केचिदविविक्तबुद्धयः प्रत्याख्यापयन्ति न वर्तमानकालावच्छिन्नस्य वस्तुनः कदाचिद् भविष्यत्कालामिसम्बन्ध इति, तन्निषेधार्थं भविष्यग्रहणम्, अथवा तद्भावेनाव्ययं, १ 'रिकसम्बन्धि' इति क ख पाठः । २ 'पुद्गलाद्यनादि तत्रा ०' इति ग-पाठः । Jain Education International ३९१ For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy