________________
सूत्रं २९ ]
स्वोपज्ञ भाष्य-टीकालङ्कृतम्
३८९
न्तरमेव विनश्यतीति, अयुक्तमिदम्, प्रतिज्ञामात्रत्वात् वयमपि ब्रूमः - स स्वहेतुरेव तादृश उपजायते येन कालान्तरमवस्थाय विनश्यतीति, अत्र च पक्षे प्रत्यक्षाद्यपि प्रमाणं सहायीभवति ॥ ननु च निष्कारण विनाशवादिनामियं युक्तिः- “ नष्टा चेन्नाशविघ्नः कः १ न चेन्नैव विनङ्क्ष्यति” इति, प्रतिकृतविधानैषा युक्तिः, “प्रागभूतात्मलाभत्वान्नाशः कारणवान् भवेत्” इति । स्वभावश्च वस्तुनो धर्मः परिणतिविशेषः, स च कश्चित् सादिवर्णादिपरिणामः, कश्चिदनादिः सत्तामूर्तत्वामृर्तत्वापरिणाम इति, अतोऽनेकान्तेनैव यो यत्स्वभावः स सर्वदा तत्स्वभाव एव कदाचिन्नश्यति कदाचिदवतिष्ठते कदाचिदुत्पद्यत इत्यलमतिप्रसङ्गेन । स्थितमिदम् - प्रायोगिकोऽप्यस्ति विनाश इति । ऐतेऽवस्थित्युत्पादविना - शास्त्रयोऽप्येककालाः विभिन्नकालाच परस्परतोऽनर्थान्तरमर्थान्तरं च तत्रोत्पादविनाशयोरेककालतायां सिषाधयिषितायां स्वात्मत्वापृथग्भावः कारणम्, नहि उत्पादविनाशयोः स्वामा भिद्यते, यथैकस्मिन्नेकक्षणवर्तिनि रूपे विभागाभावात् स्वात्मलाभकाल एवैकः कालो नान्यः समस्ति, यच्चैककालं न भवति तदेकमपि नियमेन न भवति, यथा गवाश्वयोजन्मविनाशाविति । एवमुत्पादविनाशयोरेककालता, एवमुत्पादविनाशाभ्यां द्रव्यमभिन्नकालं साध्यम्, तथोत्पादविनाशौ द्रव्यादभिन्नकालौ ताभ्यामेव हेतुदृष्टान्ताभ्यां वाच्यौ ॥ ननु चैकान्तवादी स्वात्मत्वापृथग्भूतत्वमुत्पाद्विनाशयोर्न प्रतिजानीते, तत्प्रसाधनाय परिकरः सर्पद्रव्यस्यात्मन्युत्पतनाकारेणोत्पादः, तस्यैवात्मनि पतनाकारेण विगमः, सर्पद्रव्यात्मैवोभयाकारः' नहि सर्पात्मा भिद्यते, न चेद् भिद्यते ततः सर्पस्वभावतैव, अत एवानर्थान्तरताऽपि ग्राह्या, अनर्थान्तरमुत्पादविनाशौ परस्परावधिको तत्प्रतिपत्तेरभिन्नकालत्वात् तस्योत्पादस्यारम्भो विशिष्यते अभिन्नकालत्वेन। केन सहाभिन्नकाल इति चेत्, सामर्थ्याद् विनाशेन, यस्माद् विनश्यतो हि योऽन्त्यक्षणो यश्चोत्पादस्याद्यक्षणस्तदेतावुत्पादविनाशावेककालावनर्थान्तरं च, यदि चान्यो विनाशकालः स्यात् पूर्वस्यान्यथोत्पादकालः स्यादुत्तरस्य ततः प्रागेतनं विनष्टमुत्तरमनुत्पन्नम्, एवं च वस्तुशून्यः कालो भवेन्निर्बीजं चोत्तरमुत्पद्येत, तस्मादभिन्नकालावनर्थान्तरं च ताविति । यथैकक्षणवर्तिनो रूपस्यैकत्वादेव तत्प्रतिपत्त्यभिन्नकालतेत्येतत् प्रतिपादयति । अन्यस्य ह्यन्येन भिन्नकालता सम्भाव्येत, न पुनस्तस्य तेनैवेति वाक्यार्थः । एवमितरत्रापि द्वयेऽनर्थान्तरता भावनीया, हेतुदृष्टान्तौ तु तावेव । नैगमनयाभिप्रायेण तूत्पादविनाशद्रव्याणां भिन्नकालता, उत्पादो हि प्रागभावः, स च द्रव्यधर्मत्वाद् द्रव्यवृत्तिः, प्रध्वंसाभावोऽपि विनाशः सोऽपि द्रव्यधर्म एव, द्रव्यमपि द्रव्यात्मरूपमजहत् स्वात्मनि वर्तते, ततश्चोत्पद्य कश्चित् कालं स्थित्वा प्रध्वंसाभावाद् विनश्यति, एवं भिन्नकाला: प्रत्येकात्मकालवृत्तित्वात् परस्परविभिन्नात्मानोऽर्थान्तरभूता इतियावद, पटव्योमादीनां चात्यन्त
ܐ
,
१ ' सादिपरिणामः ' इति क- पाठः । २ ' एतेन च ' इति क ख पाठः । ३ ' स्वत्मतत्वा' इति क-पाठः । 'रूपेण ' इति क - पाठः । ५ प्रध्वंसद्' इति ग-पाठः ।
c
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org