________________
३८६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ वा घटोपयुक्तस्यात्मनस्तदुपयोगविनाशे पटोपयोगोऽर्थान्तरभावगमनम्, अण्वादेव शुक्लवर्णविनाशे कृष्णतयोत्पादो विनाशः, तथाऽऽकाशादीनां पूर्वावगाहगतिस्थितिविनाशेऽवगाहान्तराऽ
र्थान्तरभावलक्षणो विनाशः, अत एव भावान्तरोत्पत्तितो न विगमो विगम एवैकान्तेन, नाप्युस्पद एवोत्पादः । इत्थमुत्पादविगमौ तत्त्वेनानेकान्तात्मकेन निरूपितावन्वयांशापेक्षावेवात्मलाभंप्रतिपद्येते प्रायोगिकस्वाभाविको नान्यथेत्येवमुक्ते कश्चिन्मृपाभिमानी महानिबिडवृद्धबुद्धविप्रलब्धबुद्धिराचक्षीत-अस्तु स्वाभाविक एव विनाशो निर्हेतुकः, प्रायोगिकस्तु नोपपद्यते, विनाशहेत्वयोगात्, विनश्यतां हि घटादीनां विनाशस्य हेतुने युज्यते, यस्मात् स्वरूपत एव भावा नश्वराः स्वहेतुभ्यो यथास्वमुपजायमाना भङ्गुरप्रकृतय उपजननक्षणानन्तरकालानवस्थाना एव जायन्ते, नैषां स्वकारणसामग्रीतः प्रतिलब्धात्मनां सतां प्रकृतिभङ्गुरभावमपहायान्यस्मा
न्मुद्गरादेः कारणविशेषान्नाशस्य वस्तुन इवोत्पत्तिः, न चेदं स्वप्रक्रियानिर्हेतुकनाशपक्षः प्रकाशमात्रम् , किं तर्हि ? उपपत्त्या निभाल्यते विनाशहेतुत्वेनाभिमतस्य
नाशकरणं प्रति मुद्रादेरसामर्थ्यम्, कथं पुनरसामर्थ्यमिति? उच्यते-विनाशकरणे हि विनाशस्य त्रयी गतिः-विनश्यमानभावस्वभावं वा कुर्यादथवा स्वभावान्तरमभावं वा, तत्राव्यतिरेकपक्षस्तावदतिस्थूल एव, नहि विनाशहेतुर्मुद्गरादिः घटादिकं भावस्वभावमेव करोति, स्वकारणेभ्य एव कुलालादिभ्यस्तस्य प्रथममेव निवृत्तत्वात् निष्पन्नस्य चाकिश्चित्कार्यत्वात्, नापि स्वभावान्तरे कर्तव्ये तदवस्थस्य घटादेरविचलस्य विनशितुर्विकारोऽपि सम्भाव्यते, कुत एव तत्स्वभावप्रच्युतिः ? तदवस्थश्च घटः पूर्ववदुपलभ्येत, अर्थक्रियां च जलहरणादिकां कुर्वीत ॥ ननु चारित्याद् घटादेरर्थान्तरं कपालायेव विनाशस्तेन च विनाशहेतुनिष्पादितेन भावस्यावृत्तत्वान्न तथोपलब्ध्यादिप्रसङ्ग इति, उच्यते- न स्वभावान्तरं कपालादिकं विनाशहेतुना क्रियमाणमस्यानित्यस्य घटादेरावरणं युज्यते, कृतेऽपि तस्मिन् कपालादिके विनाशहेतुना घटे च तदवस्थ एव दृश्यात्मनि कुतस्त्य आवरणसम्भवः ? न चैकत्रैकदा युज्यते दर्शनादर्शने, विरुद्धत्वात् । नापि विनाशहेतुना तृतीयपक्षापतितो भावाभावः क्रियते, तत्र यद्येवं विकल्प्यते न विवक्षितो भावः अभाव इति ततोऽन्यः स्याद् भाव एव, एवं चाभावस्य विधिना पर्युदासरूपेण कार्यत्वाभ्युपगमे व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः सम्भाव्यते, यदि व्यतिरिक्तमन्यं भावं करोति ततस्तथोपलब्ध्यादिप्रसङ्गस्तदवस्थः, अथाव्यतिरिक्तं तमेव भावं करोतीति तदप्ययुक्तम्, तस्य प्रथमतरमेव स्वकरणैर्निवर्तितत्वात् ॥ अथ क्रियाप्रतिषेधमात्रमालम्ब्यते, एवं सति अभावस्य भावप्रतिषेधरूपत्वेऽभ्युपेयमाने अभावं करोतीत्यसमर्थसमासेनोक्तं भावं न करोतीत्ययमर्थः सम्पद्येत, तथा च सति अकर्तु शहेत्वभिमतस्याहेतुत्वमकारकत्वमिति न विनाशहेतुर्नाम कश्चन सम्भवत्यन्यत्र विनष्टुस्तद्धर्मताया इत्युपसंहारः, वैयोचन विनाशहेतुरस्ति, यस्य भावस्य विनाशाय विनाशहेतुः कल्यते स भावः स्वभावतो नश्वरः स्यान
१ निभाज्यते ' इति क-ख-पा। २ 'लभ्यार्थक्रिया ' इति व.-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org