________________
सूत्रं २९] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३८७ वा? यदि नश्वरः स्वभावत एव भावस्तन्न किञ्चिद् विनाशहेतुनाऽस्य प्रयोजनम् , स्वयं तत्स्वभावतयैव नाशात्, यस्य हि घटादेयः स्वभावः रा स्वहेतोरेव मृदादिसामग्र्यादिकादुपजायमानस्तादृशो विनाशस्वभावो भवति, न जातुचिद् विनाशे हेत्वन्तरमपेक्षते मुद्गरादिकम्, तत्स्वभावो ह्यात्मलाभानन्तरं स्वयमेव भवत्यन्यथा तत्स्वभाव एव न स्यात्,यश्च यत्स्वभावः स स्वनिष्पत्तिहेतुमपहाय हेत्वन्तरं नापेक्षते प्रकाशादिवत्, प्रकाशादयो हि प्रकाशादिस्वभावाः स्वहेतोरुत्पन्नाः सन्तः पुनरुत्पत्तेः पश्चात् प्रकाशादिस्वभावतायां स्वजन्मव्यतिरिक्तं न हेत्वन्तरमपेक्षन्ते ॥ अथ नैव स्वभावतो नश्यति भाव उत्पन्नः ततः पश्चादपि न नश्येदनश्वरस्वभावत्वात् । न च तादृशोऽर्थक्रियासु सामर्थ्य सम्भाव्यते । तदेतदयुक्तं स्वगोष्ठरमणीयं प्रकाशनमात्रत्वात्, न ह्यनुपपत्तिकमभिधीयमानं विचित्रमपि प्रतिपत्तुमुत्सहन्ते विद्वांसः, प्रकृत्यैव भाराः सर्वभावा विनाशहेत्वयोगादित्यसिद्धता हेतोः, यस्मादयं विनाशः कदाचिदेव भवत्युपजननक्षणोत्तरकलं नोपजननक्षण एव, उपजननक्षणश्चात्मलाभकालस्तत्र विनाशाभावात् कादाचित्कत्वं विनाशस्य निर्हेतुकविनाशवादिनोऽपि प्रसिद्धम्, न हलब्धात्मलाभं वस्तु विनश्यति, व्योमकुसुमादीनामपि विनाशप्रसङ्गात, ये च कादाचित्काः पटादयस्ते प्रतिविशिष्टहेतुजन्या एव
दृष्टास्तथा विवादास्पदास्कन्दी विनाशोऽपि प्रागविद्यमानः पश्चादात्मसहेतुकता नाशस्य लाभहेतुमपेक्षमाण एवात्मानमासादयति ॥ ननु चैवमभ्युपेयमाने विना
शस्यापि हेतुमत्त्वात् पटादेखि विनाशेन भवितव्यम् , असत्त्वाच्च निष्कारणो विनाशः खकुसुमादिवदित्यनुमानविरोधिनी प्रतिज्ञेयं कारणवान् विनाश इति । अत्रोच्यते-पूर्वावस्थाप्रच्युतिरुत्तरावस्थोत्पत्तिः उत्तरावस्थापत्तिश्च पूर्वावस्थानच्युतिः, अयमेव विनाशशब्दवाच्योऽर्थो नात्यन्ताभाव इति प्राक् प्रत्यपादि प्रपञ्चेन, ततश्च विनाशस्यापि विनाश इति प्रसिद्धमेव प्रसाध्यते, विनष्टे च विनाशे पुनरवस्थान्तरोत्पत्तिक्रमवृत्त्या न किश्चिदनिष्टमस्ति स्याद्वादप्रक्रियायाम, अत एव चासत्त्वान्निष्कारणो विनाश इत्येतदप्यपास्तमेव, असस्वस्यासिद्धतादिदोपाघ्रातत्वात्, न चावश्यं सर्वेणैव हेतुमता विनष्टव्यम्, अस्मत्पक्षे स्वात्मावस्थानलक्षणस्य मोक्षस्य सम्यग्ज्ञानादिहेतुकस्याप्यविनाशाभ्युपगमात् । यद्यपि सम्यग्ज्ञाना'दिर्हेतुः कर्मक्षपणाभ्युपायस्तथापि स्वात्मावस्थानस्य कर्मक्षयरूपत्वाददोषः, विनाशवान् विनाश इति चाभ्युपयतः सौगतस्याभ्युपगमविरोधः। निष्कारणविनाशवादी चेदं प्रष्टव्यःकि निष्कारणत्वान्नित्यो विनाशः उतासनिति ? । तत्र यदि नित्यः, कार्योत्पादाभावप्रसङ्गः, द्वितीयविकल्पे विनाशाभावात् सर्वपदार्थानां नित्यत्वप्रसङ्गः । न चासन् सर्व एव निष्कारणः, स्तम्भकुम्भादीनामसत्त्वेऽपीतेरेतरात्मना हेतुमत्त्वमस्तीत्यनेकान्तात्, यथा चानादित्वात् प्रागभावो निर्हेतुकोऽपि विनश्यत्येवं विनाशोऽसन्नपि हेतुमान् किमिति नेष्यते । एवं द्रव्यपर्यायात्मकप्रक्रियाप्रपञ्चे विश्वमुखे सर्वमेवैकान्तवाद्युत्प्रेक्षितमसाधनमेव जायते स्या
१ 'दिहेतुः' इति ग-पाठः। २. पीतरात्मना' इति ग-पाठः। ३ 'यथा वा' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org