SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ सूत्र २९] स्वोपज्ञभाष्य-टीकालङ्कृतम् विनष्टेऽप्यविनष्टमैकान्ताविष्कृतं नित्यमिति, यस्माच्च पर्यायादनन्यद् द्रव्यं तस्मात् तत्पर्यायनाशे तेनात्मना तद् द्रव्यं नश्येत् नान्यपर्यायात्मना, अनेकपर्यायानन्यरूपत्वादनेकात्मकत्वादेकेनामना नश्यत्यन्येनात्मनोत्पद्यतेऽन्येन चात्मना ध्रुवमङ्गुलित्ववक्रत्वर्जुत्ववद् बहुत्वाचात्मनामेकवस्तु विषयाणामेकस्य वस्तुनः,तस्मात् कथमिवैकान्तेनाकाशादयो नित्याः प्रतिपत्तुं शक्याः? स्थाद्वादस्य देशवर्तित्वप्रसङ्गात्, आकाशादिष्वौपचारिकावुत्पादविनाशौ स्यातामिति चेत्, तदयुक्तम्, उपचारो यद्यलीकत्वम्, एवं सति ध्रौव्यमेवाकाशादिष्ववशिष्यते, न च ध्रौव्यं परमार्थरूपोत्पादविनाशशून्यम् अपिच-आकाशादिध्रौव्यं पारमार्थिकानुपचारितोत्पाद विनाशसम्बन्धि ध्रुवत्वात् पुद्गलजीवध्रुवत्ववत् । अथ व्यवहार उपचारः तथापि स व्यवहारः आगमपूर्वको वा स्याल्लोकप्रसिद्धिपूर्वको वा ? । तद् यदि तावदागमपूर्वकस्ततो भगवताऽऽख्यातं जगत्स्वरूपं प्रश्नत्रितयेनो पादादिना, न च कचिदुपचारेण कचित् परमार्थत इत्यनागध्रौव्यासिद्धिः ममाकाशादौधौव्यमेवेति, लोकप्रसिद्धयङ्गीकरणे धर्मादिद्रव्याप्रसिद्धिरेव कुतस्तदाश्रयावुत्पादविनाशाविति दूरापास्तं धादिद्रव्यध्रौव्यम् । एवमुत्पादव्ययधौव्ययुक्तं सत्सर्वमिति व्यवस्थितं लक्षणम् ॥ एवमुत्पादमभिधाय सप्रपञ्चमधुना विनाशविचारः क्रियते । विनाशोऽपि द्विविधःसमुदायविभागमात्रमर्थान्तरभावगमनं च, तत्र समुदायविभागलक्षणो द्विधा स्वाभाविक प्रायोगिकश्च, स्वाभाविको जीवव्यापारनिरपेक्षः, प्रायोगिकस्त्वात्मव्यापारादुपजातः । तत्र स्वाभाविको धर्माधर्माकाशजीवपुद्गलद्रव्याणां द्रव्यात्मनाऽवस्थितानामेव, यथा गतेरधोगति परिणामविशेषनाशादूर्ध्वगतिपरिणामे नोत्पादः, तथा कचिद् देशेऽवविनाशे भेदाः स्थितस्य तद्देशावस्थानविनाशेऽन्यदेशावस्थानोत्पादः, खस्यापि क चिद् देशेऽवगाहस्य तद्देशावगाहविनाशे देशान्तरावगाहोत्पादः, तथाऽऽत्मनः केनचिदुपयोगेनोपयुक्तस्य तदुपयोगविनाशादुपयोगान्तरेणोत्पादः, पुद्गलद्रव्यस्यापि वर्णान्तरेण प्राक् परिणतस्यापि तद्विनाशे वर्णान्तरेणोत्पादः, स चैषां पूर्वावस्थाविनाशः, समवस्थानान्तरस्योत्पादसंज्ञकस्याभिव्यक्तिकारणं, समवस्थानान्तरमेव हि तिरोभूतं विनाश उच्यते, नहि तत्र किञ्चिद् विद्यमानमभावीभूतमतो द्रव्यात्मस्थिततायामेवोत्पतनव्यक्त्यर्थ सपेनिपतनविनाशवद्, उत्पतनव्यक्तये सपेस्य निपतनमेव विनाशः, तस्माद् द्रन्यस्वतत्त्वोत्पादाविनाभूत एव विगमः, नार्थान्तरम्, यथा पटे तन्तूनां विभागेन पटकार्योत्पत्तावविनष्टं तन्तुद्रव्यत्वम्, तदेव प्रत्यक्षीक्रियते यत् तेन पृथक तन्तुभावेन प्राग नासीत्, एवं समुदायविभागमानं विनाशः । तथाऽर्थान्तरभावगमनमन्यो विनाशः, यदा मनुष्यजन्मन्यात्मपुद्गलसमुदायो विनश्यति तदाऽथोन्तरभूतेन देवत्वादिना वर्तते, नात्यन्ताभावतया, यथाऽर्हद्दत्तस्य स्थावृक्रियाविशिष्टस्य तक्रियाविनाशे गन्तृतयोत्पादोऽर्थान्तरगमनं विनाशः, यथा १ . दनेकश्चादेकेना' इति क-पाठः। २ 'गन्तृत्वेनार्थान्तर' इति क-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy