________________
पुद्गललक्षणम्
सूत्र २३ ] - स्वोपज्ञभाष्य-टीकालङ्कृतम्
___३५५ कगुणानि पृथिव्यादीनि कणभुजोक्तानि, तत्प्रतिषेधार्थ चावश्यतया विधेयं सर्वाण्येतानि चतुर्गुणानीति, एता विप्रतिपत्तीः सर्वाश्चेतस्याधायात्रोच्यत इत्याह ॥
भा०-एतदादिविप्रतिपत्तिप्रतिषेधार्थ विशेषवचनविवक्षया चेदमुच्यते
टी-एतदादीत्यादि । एषा आदिर्यासां ता एतदादयः, पुद्गलशब्देनात्मोच्यत इत्येषा विप्रतिपत्तिराद्या, कुत्सिता प्रतिपत्तिर्विप्रतिपत्तिः, तथा सर्वगतं द्रव्यं स्पर्शादिरहितं चेति द्वितीया विप्रतिपत्तिः, तनिषेधाय सूत्रारम्भः, तथा च पृथिव्यादिद्रव्याणि विशेषवचनैर्वक्तुमिष्टानि पृथक पृथक् चतुर्गुणानीत्येतदभिधीयते
. सूत्रम्-स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥५-२३ ॥
टी-प्रानिर्दिष्टेन्द्रियक्रमापेक्षः स्पर्शादिविन्यासः, विषयबलवत्वात् स्पर्शग्रहणमादौ, सति च तस्मिन् रसादिसद्भावात् । एतदुक्तं भवति-स्पर्शित्वादबादीनि चतुर्गुणानि पृथिवीवत्, तया मनः स्पशादिमदसर्वगतद्रव्यत्वात् पार्थिवाणुवत्, कृतद्वन्द्वानां मत्वर्थीयः, स च सम्बन्धापेक्षः, सम्बन्धश्च स्पर्शनादिप्राप्ताः पुद्गलाः स्पर्शाद्याकारेणोपपद्यन्त इति, अथवा सर्वदैव स्पर्शादियुक्ताः पुद्गला इति नित्ययोगे मतुप विहितः, यस्मादिन्द्रियसम्बन्धात् प्रागपि स्पोद्याकारभाजस्त इति ॥
भा०-स्पर्शः रसः गन्धः वर्ण इत्येवलक्षणाः पुद्गला भवन्ति ॥
टी-स्पर्श इत्यादि भाष्यम् । कर्मसाधनाः सर्वे स्पर्शादयः । इतिशब्दो यस्मादर्थे । यमादित्थंलक्षणाः पुद्गला भवन्ति तस्मान्न जीवाः पुद्गलशब्दवाच्या इति, यथा चैते परमाण्वादिगताः स्पशोदयो गुणाः परमाण्वादिभ्यो भिन्नाश्चाभिन्नाश्च तथा 'गुणपयोयवद् द्रव्यम्' इत्यत्र (३७) सूत्रे प्रतिपादयिष्यामः ॥ ननु च नैव केचन विज्ञानाद् बहिः स्पर्शादिनन्तः पुद्गला विद्यन्ते, विज्ञानमेव तथा प्रत्यवभासते, बाह्यार्थनिरपेक्षस्वप्नादाविवेति । अयुक्तमेतत्, अनुभवविरोधात्, यस्माद् देशविच्छेदेन स्वान्तर्वर्तिनोऽनुभवाद् बहिरवभासमानो दृश्यते नीलपीतादिरर्थः । स्वसंवेद्यो हि बुद्धिमनिवेशी बायोथाकारानु फारो द्योतते स निहोतुमशक्यः, यदा चार्थस्य ज्ञानग्राह्यं स्वरूपं तद् द्योतते कथं सोऽर्थो नास्तीत्युच्यते, स्वप्ने च विपयेयदर्शनादविपर्ययदर्शनाच जाग्रदवस्थायामित्यसमञ्जसमुदाहरणम्, प्रमाणप्रमाणाभासाविशेषाच्च । बाह्यार्थशून्यतायां हि वस्तुस्वलक्षणग्राहि ज्ञानं प्रमाणं प्रत्यक्षमान्तरविकल्पमुखेन प्रवर्तमानं प्रत्यक्षाभासमित्येष विशेषो न स्यात्, तस्माद विज्ञानं बहिरर्थस्वरूपानुकारितया साकारम्, अनाकारत्वे प्रत्यासत्तिविप्रकर्षाभावात् सर्वार्थग्रहणमग्रहणं वा स्यात्, अतो ग्राहकविशेषादेव ग्राह्यदृष्टिनिबन्धनम्, अन्यथाऽर्थज्ञानमित्येतदपि न स्यात्, व्यपदे शस्यापकारप्रभावितत्वात, उपकारस्य च जन्यजनकभावनान्तरीयकत्वात्, अलमतिप्रसङ्गेन, प्रकृतमुच्यते
१' पृथग्गुणानी०' इति क-ख-पाठः । २ ' बाह्याकारो' इति ग-पाठः । ३ 'भावाना०' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org