________________
तत्वार्थाधिगमसूत्रम्
[ अध्याय: ५
भा०—तत्र स्पर्शोऽष्टविधः - कठिनो मृदुर्गुरुर्लघुः शीत उष्णः स्पर्शादीनां प्रकाराः स्निग्धो रूक्ष इति । रसः पञ्चविधः - तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो द्विविधः - सुरंभिरसुरभिश्च । वर्णः पञ्चविधः कृष्णो नीलो लोहितः पीतः शुक्ल इति ।। २३ ।। किञ्चान्यत्
३५६
टी० – तत्रेत्यादि । स्पर्शादीनामनन्तपर्यायत्वेऽपि मौलभेदप्रसिद्ध्यर्थकठिन प्रमुख स्पर्शा मिदं प्रक्रियते, कठिनादयो विद्वदङ्गनावालादिप्रतीतास्तथापि सुप्रयुक्तकादीनां लक्षणान रिभिरमूनि लक्षणानि प्रत्येकं प्रकाश्यन्ते, अनमनात्मकः कठिनः, सोन्नतिलक्षणो मृदुः, अधोगमनहेतुर्गुरुः, प्रायस्तिर्यगूर्ध्वगमनहेतुर्लघुः, वैशद्यकृत् स्तम्भनस्वभावः शीतः, मार्दवपाककृष्णः, संयोगे सति संयोगिनां बन्धकारणं स्निग्धः, तथैवात्रन्धकारणं च रूक्षः, इतिशब्दः परिस्थूर स्पर्शभेदे यत्ताप्रतिपादनार्थः । अत्र च स्त्रिग्धरूक्षशीतोष्णाश्चत्वार एवाणुपु सम्भवन्ति, स्कन्धेष्वष्टावपि यथासम्भवमभिधानीयाः । श्लेष्मशमनकृत् तिक्तः, श्लेष्मभेदपाटवकृत् कटुः, अन्नरुचिस्तम्भनकर्मा कषायः, आश्रवणक्लेदनकृदम्लः, ह्रादनगॄहकृन्मधुरः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । सुरभिवन्दनोशीर कश्मीरजादीनाम्, असुरभिर्लसुन विष्ठादीनाम्, सौमुख्यवैमुख्य कारित्वात् साधारण इत्येके, तन्न, उभयो - रन्तर्णीतविषयत्वात् । कृष्णादयो वर्णाः क्रमेणाञ्जनशुरुपत्ररुधिरकाञ्चनशङ्खादिषु विभावनीयाः, संसर्गजाः सारङ्गादयः । एवमेतद् द्रव्यमेव स्पर्शादिभेदेन भिद्यते स्वगादीन्द्रियप्राप्तमनेकशक्तियुक्तत्वाद् द्रव्यनयाभिप्रायः, पर्यायस्य तु स्पर्शादय एव, न द्रव्यं, तदग्रहे तबुद्ध्यभावादिति ॥ २३ ॥
किञ्चान्यदित्यनेन सम्बन्धयति । असकलरूपद्रव्यधर्म निर्देशादनेनेदमुच्यते-किश्चान्यदिति । पुद्गलानां न केवलं स्पर्शादयो धर्माः, शब्दादयश्चेति दर्शयति
पुद्गलानां सूत्रम् — शब्द-बन्ध-सौक्ष्म्य स्थौल्य-संस्थान -भेद - तमश्छायातपोद्योतवन्तश्च ।। ५-२४ ॥
शब्दादिधर्माः
टी० - शब्दादयः कृतद्वन्द्वा मतुपा निर्दिश्यन्ते पुद्गलपरिणामप्रदर्शनाय । चशब्दः पुद्गलानुकर्षणार्थः ॥
भा० - तत्र शब्दः षड्विधः- ततो विततो घनः शुबिरेः संघर्षो भाषा इति ॥ टी० – तत्र शब्द इत्यादि भाष्यम् । तत्रेति तेषु शब्दादिषु पुद्गलपरिणामेषु शब्दस्तावदेवस्वरूपः, विवक्षावशादन्वयव्यतिरेकाभ्यां प्रधानगुणभावतया सामान्यविशेषवतोऽर्थस्याभि
१' सुरभिश्वासुरभिश्व' इति क-ख-पाठः । २ ०रो घर्मो भाष इति ' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org