________________
३५४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ परिहीणे परत्वापरत्वप्रत्ययाभिधानसम्भवात्, न च बन्धुजनापेक्षे, एकाकिन्यपि भावात्, न तपश्चरणालम्बने, अतपस्केऽपि दर्शनात्, न कर्मसंस्कारापेक्षे, तयोरनधिकारात्, न चादित्यनिमित्ते, तत्रापि दृष्टत्वात , परोऽभियोग्यः अपर आदित्यः परः सविताऽपरोऽभियोग्य इति, अतः सामर्थ्यात् कालकृते, तयोर्विशेषणार्थमिदमुच्यते-प्रशंसाक्षेत्रकृतेऽपि पर स्वापरत्वे वर्जयित्वेति, वर्तनादयः सर्वे कालकृताः कालस्यापेक्षाकारणस्यानुग्रह उपकार इति सूत्रार्थः ॥ एवं चायं यत्परत्वापरत्वे सूत्रभेदेन समस्य निर्दिष्टे सूरिणा तदवगमक-न प्रशंसाक्षेत्रकृतयोरत्र परिग्रहः, वर्तना परिणामः क्रियाश्च द्रव्यस्वभावः कालापेक्षो निरदेशि, परत्वापरत्वे चावधित्वेन काललिङ्गमिति ॥ २२ ॥
भा०–अत्राह-उक्तं भवता ( अ० ५, सू० १९ भाष्ये )-शरीरादीनि पुद्गलानामुपकार इति । पुद्गला इति च तन्त्रान्तरीया जीवान् परिभाषन्ते । स्पर्शादिरहिताश्चान्ये । तत् कथमेतदिति । अत्रोच्यते ॥
टी-अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः । अत्र प्रस्तावे परोऽभिधत्ते-प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार इति । तन्त्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्यनेन शब्देन जीवान् परिभाषन्ते-पुद्गलशब्दं जीवेषु सङ्केतयन्ति व्यवहारसिद्धयर्थमिति ॥ ननु च तेषां जीव एव नास्ति, कथं तद्विषयं पुद्गलध्वनि परिभाषेरनिति । उच्यते-अस्त्यार्यसम्मितीयानामात्मा, सौत्रान्तिकानां तु चित्तताक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः, चित्तसन्ततौ वेदनासंज्ञा चेतनादिधर्मयुक्तायां चक्षुरादिसहितायां च चिंत्तेनान्योन्या
. नुविधानातू, इत्येषा चित्ततद्युक्तानां धर्माणां सन्ततिरहङ्कारवस्तुत्वादा
त्मेत्युपचर्यते, तथा पुनः पुनर्गत्यादानात् पुद्गल इत्युपचर्यते, योगाचारणां तु विज्ञानपरिणामः पुद्गलः ॥ यथाऽऽह
"आत्मधर्मोपचारो हि, विविधो यः प्रवर्तते ।
विज्ञानपरिणामोऽसौ, परिणामः स च त्रिधा ॥" एवं तन्त्रान्तरीयैः पुद्गलो जीव उक्तः, त्वया पुनः शरीराधुपकारिणः पुद्गला इत्युच्यते तदेतत् कथं विप्रतिषिद्धत्वादिति प्रश्नयति ॥ नन्वनुपपन्नः संशयः, पूर्वमुक्तमेव-रूपिणः पुद्गलाः (अ० ५, सू० ४) इति, न च रूप्यात्मा प्रतीत इति, उच्यते-रूपशब्देन तत्र मूर्तिरुक्ता, सा च मूर्तिरन्यैरसर्वगतद्रव्यपरिमाणमिष्यते, यथा मनः, तच्च स्पर्शादिरहितम, एतन्निरासार्थमिदमवश्यं वक्तव्यं भवति सूत्रं-स्पर्शादियुक्ता मूर्तिः, तथा चतुस्त्रिधे
१ धर्मादयस्तावदरूपिणो लक्ष्याश्च गत्यादिद्वारेण जीवानां च लक्षणमुपयोग इति प्रागेवोक्तमिति पुनललक्षणानि वक्तकामः परविप्रतिपत्तिनिरासाय शङ्कते, यद्वा संघातभेदौ वक्तुकाम आरभते हेतूनाख्यातुं तत्राह ।
२'चित्तेऽन्योन्या' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org