________________
सूत्र २२] ___स्वोपज्ञभाष्य टीकालङ्कृतम्
३५३ री०-क्रिया गतिरित्यादिभाष्यम् । करणं क्रिया-द्रव्यपरिणामस्तस्यानुग्राहकः कालः, तद्यथा-आकाशदेशावल्यामगुली वतेते अतीताऽनागतेति च, अन्यथाऽतीत एव
वर्तमानोऽनागतश्च स्यात्, एवमनागतो वर्तमानश्च सङ्कीर्येत, अनिष्टं गति-विचारः चैतत्, तस्मादस्ति कालो यदपेक्षयाऽतीतादिव्यपदेशाः परस्परासङ्की
णोः संव्यवहारानुगुणाः प्रथन्ते, तत्रातीतो द्विविधः भाव-विषयभेदात, विनष्टो घट इति भावातीतः, विषयातीतश्चक्षुरादिग्रहणानन्तरमद्राक्षं घटम्, तथानागतदिह. क्षाभ्यो घटो विषयानागतः, अलब्धात्मभावो भावानागत इति । तत्र प्रयोगगतिः जीवपरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया, विस्रसागतिः प्रयोगमन्त
... रेण केवलाजीवद्रव्यस्वपरिणामरूपा, परमाण्वभ्रेन्द्रधनुःपरिवेषादिरूपा प्रयोगगत्यादिविचारः विचित्रसंस्थाना, मिश्रिका प्रयोगविस्रसाभ्यामुभयपरिणामरूप
त्वाज्जीवप्रयोगसहचरिताचेतनद्रव्यपरिणामात् कुम्भस्तम्भादिविषया, कुम्भादयो हि तेन तादृशा परिणामेनोत्पत्तुं स्वत एव शक्ताः कुम्भकारसाचिव्यादुपजायन्ते, वर्तनापरिणामयोः क्रियाजातीयत्वादेव पर्यन्ते क्रियोपादानम्, परिणामश्चात्र प्रधानमित्यतो वर्तनाक्रिययोः स मध्येऽधीतः सूत्रकारेण, परिणतिविशेषा एव वर्तनाक्रियाभेदा इति ॥
भा०—परत्वापरत्वे त्रिविधे-प्रशंसाकृते क्षेत्र कृते कालकृते इति । तत्र प्रशंसाकृते परो धर्मः परं ज्ञानमपरोऽधः अपरमज्ञानमिति । क्षेत्रकृते एक
दिक्कालावस्थितयोर्विप्रकृष्टः परो भवति, सन्निकृष्टोऽपरः । परत्वापरत्वविचारः कालकृते द्विरष्टवर्षाद् वर्धशतिकः परो भवति, वर्षशतिकाद्
हिरष्टवर्षोऽपरो भवति । तदेवं प्रशंसाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादीनि कालकृतानि कालस्योपकार इति ॥ २२ ॥
टी०-परत्वापरत्वे इत्यादि । प्रशंसाक्षेत्रकालभेदात् त्रैविध्यम्, तत्र प्रशंसायाम्, परो धर्मः सर्वोत्तमत्वात् प्रशस्तः सकलमङ्गलनिलयत्वात् प्रकर्षकाष्ठागत इति, अपरोऽधर्मो जघन्यः स्वल्पगुणत्वात् निकर्षावस्थाप्राप्तः, तथा परं ज्ञानं यथावस्थितवस्तुवेदित्वात, अपरमन्यथा, तचाज्ञानमेवाप्रशस्तत्वात् कुत्सितमसम्यग्दृष्टेरिति । क्षेत्रकृते इत्यादि, एकस्यां दिश्येकदाविप्रकृष्टो दूरवर्ती परःप्रत्यासमोऽपरः सन्निकृष्ट इत्यर्थः, दिशः प्राधान्यमविनाभावित्वात् कालोऽप्यत्राक्षिप्यते, कालैकत्वेऽप्यपदेशो भवत्येकदिग्व्यवस्थितयोः परोऽपर इति । कालकृते इत्यादि, व्यतिकरेणापरस्मिन् परं परस्मिँश्चापरमिति यन्निमित्ते प्रत्ययाभिधाने स कालः। तद्यथा-षोडशवर्षात् परो वर्षशतायुः वर्षशतायुषोऽपरो द्विरष्टवर्षायुः, प्रशंसाक्षेत्रकतपरत्वापरत्वे चैते न भवतः, लुब्धकादावपि दर्शनात्, यस्माल्लुब्धकेऽपि देशकुलजातिविद्या
सङ्कीर्णतोऽनिष्टं ' इति क-ख-पाठः । २ 'जातीयकत्वादेव' इति ग-पाठः । ३ 'धर्मः अपर ज्ञानमिति' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org