________________
३४८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ सूत्रम्-वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ ५-२२ ॥
___टी०-यदा तु पृथक कालद्रव्यं धर्मादिभ्यस्तदाऽप्यवश्यं सतोपकालस्योपकारः कारिणा भवितव्यम् । संश्च कालोऽभिमतः स किमुपकार इति तस्य
खलु वक्ष्यमाणस्वतवमूर्तेः वर्तना परिणाम इत्यादिनाविनाभूत लिङ्गमुपदर्श्यते । यच्च प्राङ् नोपान्यासि सूत्रकारेण कालस्तदस्तिकायत्वप्रतिषेधाय । आह च
" तसान्मानुषलोक-व्यापी कालोऽस्ति समय एक इह ।
एकत्वाच स कायो, न भवति कायो हि समुदायः॥" स चैकः समयो द्रव्यपर्यायावबद्धवृत्तिरेव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्माऽपि स्वरूपानन्त्यभूतक्रमाक्रमभाव्यनाद्यपयेवसोनोऽनन्तसङ्ख्यापरिणामः, अत एव पयोयप्रवाहव्यापिनमेकमात्मानमातनोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुतेः सर्वदा ध्रौव्यांशावलम्बनात्, सामान्यः परमार्थत्वात सन्नेव न कदाचिदप्यसत्त्वं भजत इति यद्यर्धतृतीयद्वीपसमुद्रद्वयाक्रान्तक्षेत्रपरिणामस्तिर्यग्मानेन पञ्चचत्वारिंशद्योजनलक्षप्रमाणः (ऊर्ध्वमधश्चाष्टादशयोजनप्रमाणः ) कालो नाम द्रव्यमिति निरूप्यते वर्तनादिलिङ्गसद्भावात्,
- ततः किमिति मनुष्यलोकादपि परतो नाभ्युपेयते, तल्लिङ्गोपपत्तेः, कालस्य . इह वर्तनालक्षणः कालः उच्यते, सा चास्ति तत्र वृत्तिः, तथा प्राणा
पाननिमेषोन्मेषायुःप्रमाणादि परत्वापरत्वादिलिङ्गं चेति । अत्रोच्यतेसत्यामपि भावानां वृत्तौ तस्यास्त्वविशेषेण काललिङ्गत्वं नेष्यते, सन्तो हि भावाः स्वयमेवोत्पद्यन्ते व्ययन्त्यवतिष्ठन्ते च, अस्तित्वं च भावानां वस्त्वन्तरापेक्षम्, न च तत्रत्याः प्राणादिवृत्तयः कालापेक्षास्तुल्यजातीयानां सर्वेषां युगपदभवनात्, कालापेक्षा शास्तुल्यजातीयानामेकस्मिन् काले भवन्ति, न विजातीयानाम्, ताश्च प्राणादिवृत्तयस्तद्वतां नैकस्मिन काले भवन्त्युपरमन्ति चेति, तस्मान कालापेक्षास्ताः, न च परत्वापरत्वे तत्र कालापेक्षे, स्थितिविशेषापेक्षे हि परत्वापरत्वे, पष्टिवर्षाद् वर्षशतिकः परोऽपरः षष्टिवर्ष इति षष्टिवषोंगां शतं वर्षाणामिति स्थितिरेषा, सा च सत्त्वापेक्षास्तित्वादेव, भावानामस्तित्वं चानपेक्षमित्युक्तम् ।। नन्वेवमेव मनुष्यलोकेऽपि कालनिरपेक्षा वर्तनादयो भविष्यन्ति, किंकालकल्पनयेति चेत् , उच्यते-यदि निर्वत कारणं परिणामकारणं वा कालोऽकलयिष्यताऽभविष्यदेतदेवम्,अपेक्षाकारणं हि सः । न ह्यसावधिष्ठाय स्वातन्येण कुलालवत् करोति । न च मृत्तिकावत् परिणामिकारणं, किन्तु सम्भवतां स्वयमेवार्थानामस्मिन् काले भवितव्यम्, नान्यदेति अपेक्षाकारणं धर्मद्रव्यमिव गता
१ नोपन्यासि ' इति क-ख-पाठः । २ ' पर्यवसाने' इति ग-पाठः । ३ चिह्नान्तर्गतो भागो नास्ति क-ख. योः।४'वियत्यव.' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org