________________
सूत्र २२ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
३४९
विति न दोषः, सुखादिदृष्टान्ताच पूर्ववद् वाच्याः ॥ अत्र च केचिदाचक्षते - विरोधासम्भवान् वर्तनादिपदत्रयसमासः, अपरे पुनरसमस्तान्येवाधीयते, परत्वापरत्वयोः पुनः समास एव, अन्योन्यापेक्षत्वात्, वर्तनाग्रहणमादौ पूर्वापरनिरपेक्षप्रत्ययाभिधानहेतुत्वान्निदर्शनार्थत्वात् । तदनु परिणामग्रहणं, क्रियाग्रहणं वर्तनादनिां तज्जातीयत्वात् । तदनु परत्वापरत्वे विशिष्टलिङ्गत्वात् प्रशंसाक्षेत्रकृतव्युदासार्थम् । उपकारानुकर्षणार्थश्वशब्दः ॥
भा०-- - तद्यथा - सर्वभावानां वर्तना कालाश्रया वृत्तिः । वर्तना उत्पत्तिः, स्थितिरथ गतिः प्रथमसमयाश्रयेत्यर्थः ॥
--
टी० - तथथा - सर्व भावानामित्यादि भाष्यम् । तद्यथेत्यनेन वर्तन |स्वरूपम् वर्तनादीनां सकलभावव्यापितां दर्शयति । तत्र वर्तनैव तावद् भाव्यते-वर्तना काला या वृत्तिरिति वर्तन्ते स्वयमेव पदार्थास्तेषां वर्तमानानां प्रयोजिका कालाश्रया वृत्तिः, वर्त्यन्ते यया सा वर्तना । 'ण्यासश्रन्थो युच्' (पा० अ० ३, पा० ३, सू० १०७) । अथवा सैव कालाश्रया वृत्तिर्वर्तनशीलेति, 'अनुदात्तेतश्च इलादेः ' ( पा० अ० ३, पा० २, सू० १४९ ) इति युच् । वृत्तिर्वर्तनं तथाशीलतेति सा च वर्तना प्रतिद्रव्यपर्यायमन्तर्णीत कस मयस्व स तानुभूतिलक्षणा उत्पाद्यस्येतरस्य वा भावस्य प्रथमसमयसंव्यवहारोऽनुमानगम्यस्तण्डुलादिविकारवदग्न्युदक संयोगनिमित्ता विक्रिया प्राथमिक्यतीतानागत विशेषविनिर्मुक्ता, वर्तते पाकः अस्य वा भावानुसमयस्थितेर्वर्तना प्रतीता, सा चातिनिपुणपुरुषबुद्धिगम्या । यथाऽऽह—
“बिसस्य बाला इव दह्यमाना, न लक्ष्यते विकृतिरिहाभिपाते ।
तां वेदयन्ते मितसर्वभावाः, सूक्ष्मो हि कालोऽनुमितेन गम्यः ॥ "
ननु च सवितुरुदयेन वर्तमानेनोपलक्षिता भावानां प्रतिविशिष्टा क्रियैव वर्तते इत्यावैद्यते कोऽन्यस्तद्व्यतिरिक्तः काल इति, तथा ह्यः श्व इत्यतीतानागतोदयलक्षणा ब्रध्नमण्डल - भ्रमणानुमेया वस्तु क्रियैवोच्यतेऽवृतद् वर्तिष्यत इति । यथा चोक्तम्-नृलोके, तत्कृतः कालो विभागः (अ० ४, सू० १४, १५) इति, अत्रोच्यते, प्रागुत्पतद्भिरेवास्माभिरिदमुक्तम्- धर्मादिद्रव्यपरिणतिमात्रं कालस्तदन्यो वा, तत्र प्रथमपक्षे सिद्धसाध्यता, तदन्यपक्षेऽपि न दोषः, आदित्यगत्युपलक्षिता नैषा वस्तुक्रिया वर्तत इति, तद्गतावपि सद्भावाद; वर्तते ब्रज्या सवितुर्यथा आकाशप्रदेशनिमित्तेति चेत्, तदप्यसमञ्जसम्, तां प्रत्यधि करणभावात् स्थालीवत्, कथं पुन
१ यदि च तिर्यग्लोकवृत्तिपदार्थानां चन्द्रसूर्यादिगतिक्रिययोपकृतिः तदां स्पष्ट एवोपकारस्तस्य तिर्थ लोके, सुरलोकादौ न सूर्यादेर्गतिक्रिया न च तया तस्योपकार इति स्पष्ट एवान्यत्र सदनुपकारः, प्रागुक्तमपि च यदुतात्रस्येनैव कालेनान्यत्र व्यवहारः, परमनिरुद्धः समयोऽपि सूर्यादिक्रियाव्यङ्ग्यदिनादेः परमो लव एव, सूर्यादिगतावपि प्राचीना तद्गतिर्हेतुरेव, एवं तिर्यग्लोक एव तस्य वृत्तिर्युक्ता, कथमन्यथा लोकालोकयोर्वर्तनादिसद्भावात् न स सर्वत्र, एवं व पर्यायताऽपि तस्य युज्यत एव ।
२ 'प्रथमसमाश्रयेत्यर्थः' इति क-ख- पाठः । ३ 'ण्याश्रयो युच्' इति ग-पाठः । ४ 'वेद्यन्ते' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org