________________
३४७
सूत्रं २१]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-परस्परशब्दः कर्मव्यतिहारविषयः । अन्योन्योपग्रहो जीवानामुपकारः । नन्वपरस्परेति भवितव्यमित्यत्र परस्परा क्रिया सातत्येनेत्यत्रके व्याचक्षते, वर्णलोपं कृत्वा निरदिक्षदाचार्यः परम्परोपग्रह इति कात्यायनवचनाद् वा 'इतरेतरान्योन्योपपदाच (पा० अ० १, पा० ३, सू० १६) इत्यत्रोक्तं 'परस्परोपपदाचेति (वक्तव्यं ) (वार्तिके ९००) परस्परस्य व्यतिलुनन्ति । हिताहितोपदेशाभ्यामिति । हितमायत्यां वर्तमाने च यत् क्षम युक्तं न्याय्यं वा, तद्विपरीतमहितम्, हितप्रतिपादनेनाहितप्रतिषेधेन चोपग्रहं कुर्वन्ति, पुनरुपग्रहवचनमाभिप्रायिकं दर्शयति, जीवाः परस्परहिताहितोपदेशदायित्वेनानुगृहन्ति. न त्वेवं पुद्गलाः । अथवा सुखादीनामेकैकोऽप्यनुग्राहको जन्तोर्भवति समुपजातः, इह तु पुनरुपग्रहमाणोपग्राहकयोः परस्परेण स्त्रीपुंसवदनुग्रहे योगपद्यार्थ पुनरुपग्रहवचनं प्रतिपत्तव्यम्, सर्वदैव द्विप्रभृतीनामुपकारो नैककानाम्, उपसर्जनं चोपग्रहः पूर्वसूत्रे, इह तु स्वतन्त्रः, जीवानामुपदेशस्य भूयस्त्वेनोपकारकत्वाद् ग्रहणम्, न तथा प्राणिनो वित्तादिभिरुपकुर्वन्ति यथोपदेशेनेति, अहितोपदेशोहितानुष्ठानं वा कथमुपकारः, न, उपकारवचनस्य निमित्तार्थत्वात, अन्यथा हीष्टोपग्रह एवोपकारः स्यात्, नानिष्टोपग्रह इत्यव्यापिता भवेत् ॥ ननु जीवानामुक्त लक्षणमुपयोग इति किं पुनरारम्भेग ? नैतत्, तदस्त्यन्तरङ्ग लक्षणमिदं तु बहिरङ्गम्, एवं तर्हि धर्मादित्रयस्य लक्षणं नास्ति । अत्रोच्यते-गतिस्थित्यवगाहानां स्वाभाव्याद, यो हि यत्रासाधारणो धर्मः स एव तस्य लक्षणम्, इतिशब्दोऽधिकारपरिसमाप्त्यर्थ इति ॥ २१ ॥
भा०-अत्राह-अथ कालस्योपकारः क इति १ । अत्रोच्यते
टी०-अत्राहेत्यादिना सम्बध्नाति-अत्रेति पञ्चास्तिकायपरिसमाप्तिप्रस्तावे पर आहअथ कालस्योपकारः क इति १ ॥ ननु च पूर्वोपन्यस्तेषु धमोदिषु द्रव्येषपकारविषयः प्रश्नो घटमानः कालद्रव्यं तु नैवोपन्यस्तम,अतः कथं तत्कृतोपकारविषयः प्रश्नः सङ्गच्छेत । सत्यम्, नोक्तं कालद्रव्यं, किन्तु कालश्चेत्येके (अ० ५, सू० ३८ ) इति वक्ष्यत्येकीयमतेन स कदाचिद् धर्मास्तिकायादिद्रव्यपश्चकान्तभूतस्तत्परिणामत्वात्, कदाचित् पदार्थान्तरं धर्मादिवत् , सर्वथा लक्षणं वक्तव्यमेतच्चेतसि संनिवेश्य प्रश्नयति-अथ कालस्योपकारः क इति । असाधारणलक्षणविषयः प्रश्नः । कथं पुनधेमोदिपरिणाममात्रं काल इति चेत. यतस्तद्धर्मविशेषा एवातीतानागतवर्तमाना आख्यातशब्दवाच्याः, ते च बुद्धयर्थशब्दात्रयः, सर्व च वस्त्वर्थाभिधानप्रत्ययसगृहीतं, तुल्यव्यपदेशत्वात् शब्दार्थबुद्धीनाम्, तत्रार्थलक्षणः कालोऽर्थवृत्तिभिरेवावध्रियते इत्यत्रोच्यत इत्याह ॥
१. अन्यस्योपग्रहः' इति ग-पाठः ।
२ एकेन जीवेन द्वितीयस्य तेन तृतीयस्येत्येवं परम्परार्थे परस्परशब्दः, यथा च धर्मादीनां स्वभावेनैवोपकर्तृता नैवमेषां, किन्तु अनुग्रहधियैव, यद्वा इन्द्रियादिकार्याण्याश्रित्य परस्परेषामुपग्राहकता, तच्छक्तीनां कार्यद्वारावस्थितेः । ३ 'धर्मादिद्रव्येषु ' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org