________________
३४६ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ५ टी-कर्मण इत्यादि । यस्मात् सकलमेव ज्ञानावरणादि कर्म पुद्गलात्मकम्-अनन्तप्रदेशात्मकस्कन्धविकारः, कर्मनिमित्ता च तेषां स्थितिस्तद्वारेण जीवितोपग्राहिणः, त एव च कर्मपुद्गलाः क्षीयमाणा मरणोपग्राहिणः सम्पद्यन्त इति, तस्मात् सुष्ठूच्यते-तेषामपि
जीवितमरणोपग्रहः पुद्गलानामुपकारः । आहारश्च विविध पुद्गलेषु सर्वोपकारिता इत्यादि । समुच्चयार्थश्वशब्दः, ओजोलोमप्रक्षेपलक्षणस्त्रिप्रकार आहारो
ऽभ्यवहरणम् , तत्रौजआहारः सर्वप्रदेशैरात्मनः सर्वस्यापर्याप्तकावस्थायां जन्मेकाले घृतमध्यप्रक्षिप्तापूपवत्, पर्याप्तकावस्थायां तु लोमाहारस्त्वगिन्द्रियग्रहणलक्षणः, प्रक्षेपाहारस्तु कावलिकः, सोऽपि पर्याप्तकानामेव पृथिवीकायायेकेन्द्रियनारकदेववर्जानामसुमताम्, सर्वेषामित्यनेन संसारिणः परिगृह्यन्ते ॥न संसारिणोऽपि केचिदन्तर्गतावनाहारकाः, केवलिनस्तु समुद्धातकाले शैलेश्यवस्थायां चेति, अतः कथं सर्वेषामुपकुरुत इत्युच्यते ? बाहुल्यमङ्गीकृत्येदमुक्तमल्पकालत्वाच नापेक्षितं भाष्यकारेण । किं कारणमेतदेवमिति प्रश्नयति, शरीरेत्यादिनोपपादयति । यस्मादाहाराधीनाः शरीरस्य स्थित्यादयोऽनपवायुषाम् , आहारश्च पुगलविकारः, ततः पौद्गलिकत्वादुपकुरुते, तत्र स्थितिः सन्धारणमन्यथा नातिठेत, उपचयः परिपोषो मांसमज्जादीनाम्, बलं शक्तिः, प्राणः सामर्थ्यम्, वृद्धिरारोहपरिणाहलक्षणा, प्रीतिश्चित्तधर्मः परितोषरूपः, एवमनेकप्रयोजननिवर्तनसामोदाहार उपकारक इति ॥ २० ॥
भा०-अत्राह-गृह्णीमस्तावद् धर्माधर्माकाशपुद्गलजीवद्रव्याणामुपकुर्वन्तीति । अथ जीवानां क उपकार इति ? । अत्रोच्यते
टी-अत्राहेत्यादिसम्बन्धग्रन्थः । सर्वैर्धर्मादिभिरुपकृतं निमित्तव्यापारविशेषेण जीवानाम्, अथात्मानः किमन्येषामात्मनामेवोपकुर्वन्तीत्युपकारं जीवसम्बन्धिनं पृच्छति । अथवा धर्माधर्माकाशपुद्गलानां परानुग्रहः सान्ततिक उक्तः, किमेवमात्मनामप्युतान्यो विधिरिति प्रश्नयति । तत्र जीवद्रव्याणामिति । जीवानां सर्वे धर्मादय उपकुर्वन्ति, धर्माधर्माकाशाः पुद्गलद्रव्याणामुपकारकाः, आकाशं धर्माधर्मपुद्गलानामुपकारकम्, इत्थमेतेऽनुग्रहकारिणः प्रसिद्धा धर्मादय इति बुद्धयामहे । अथ जीवानामुपकारः क इत्यनवबोधाद प्रश्निते अत्रोच्यते इत्याह ।
सूत्रम्-परस्परोपग्रहो जीवानाम् ॥ ५-२१ ॥ जीवोपकारः
भा०-परस्परस्य हिताहितोपदेशाभ्यामुपग्रहो जीवाना
मिति ॥ २१ ॥ १ जन्मशब्देन नात्र प्रसवः, किन्तु गर्भावतारः। २ शरीरपर्याप्स्यैव पर्याप्तका ग्राह्याः, अन्यथा अपर्याप्ताना लोमाहारस्याप्यभावसंभवात् । ३ अपवर्तमीयेतरायुष्मतामित्यर्थः, अत एव शरीरेत्यादिहेतुः संगतः ।
४'ननु च संसा.' इति ग-पाठः। ५. नावतिष्ठते ' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org