SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सूत्रं २० ] स्वोपज्ञभाग्य - टीकालङ्कृतम् ३४५ सङ्ग्रहीतकर्मणामुपक्रमाभावाज्जीवितसंवर्तनाभाव इत्यर्थः । विषशस्त्राभिमन्त्रप्रहरणादयो मरणस्य - जीवितोच्छेदलक्षणस्योपकारकाः पूर्वोपात्तायुपश्चापवर्तनकारिणः, कर्म हि पौगलिकमिष्टं भेत्तुं बहिः पौद्गलं (पुद्गलै: १) शक्यम् । आह - " सोपक्रममायुकं, वेदनयाऽऽर्तस्य मूर्च्छतो जन्तोः । बन्धप्रायोग्याभ्यां, विगच्छति नेहरौक्ष्याभ्याम् ॥ १ ॥ - आर्या निरुपक्रमं तु न तथा-ssयुष्कं दृढसंहितं यदिष्टं तत् । नवग्न्याद्यैरनुप-क्रम्यं कंकटुकमपरान्नम् ॥ २ ॥ आयुष्कस्यावयवा, बन्धनमुक्ता जटन्ति ते तस्मात् । आर्द्राद् वस्त्राद् यद्वत्, प्रशोष्यमाणाज्जलावयवाः ॥ ३॥ प्राणाहारनिरोधा - ध्यवसाननिमित्त वेदनाघाताः । स्पर्शाचायुर्भेदे, सप्तैते हेतवः प्रोक्ताः ॥ ४ ॥ " भा०-अत्राह - उपपन्नं तावदेतत् सोपक्रमाणामपवर्तनीयायुषाम् । अथानवयुषां कथमिति । अत्रोच्यते टी० – अत्राहेत्यादिना ग्रन्थेनाशङ्कते सोपक्रमायुषामनशनरोगादिबाधाभिरुपक्षीणायुषामपवर्तनीयायुषां च भृगुपतनोद्बन्धनादिभिरपवर्तमानायुषामुपकुर्वन्तु नाम पुद्गलाः, ये पुनरनपवर्तनीयायुषो भवन्त्यौपपातिकच रमदेहोत्तमपुरुषास ख्येयवर्षायुषस्तेषां कथं जीवितमरोपग्रह इत्याक्षि अन्रोच्यत इत्याह भा०- तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः । कथमिति चेत्, तदुच्यते ॥ टी० - तेषामपीत्यादि । तेषामप्यनपवर्तनीयायुषां जीवितोपग्रहो मरणोपग्रहश्च पुद्गलआलायत्त एव, पुद्गलकृत एवोपकार इतियावत्, कथमिति चेत्, आशङ्कते, केन प्रकारे - णानपवर्त्यायुषामुपकुर्वन्ति पुद्गलाः, एवं मन्यते न तेषामायुर्वर्धयितुं शक्यम्, न व्हासयितुम्, अतः कमुपकारं पुद्गलाः कुर्युरिति तदुच्यते इत्याह भा० – कर्मणः स्थितिक्षयाभ्याम् । कर्म हि पौद्रलमिति । आहारश्च त्रिविधः सर्वेषामेवोपकुरुते । किं कारणम् ? । शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थं स्याहार इति ॥ २० ॥ १ अपवर्तनीयायुषां निरुपक्रमत्वाभावात् सोपक्रमेत्यादि । २ आयुषः परानुपग्राह्यत्वात् स्वभावतस्तेषां मरणं, म जातु तेषां पुद्गलोपग्रहो नामेति शङ्कते । ३ शीघ्रमायुःक्षयप्रतिपादनाय भेद इत्याशयः । ४ कर्मशब्देनायुः • कर्मैव प्राचं, प्रकरणात् जीवितमरणयोः, अनपवर्तनीयायुषामपि नायुरन्तरेण जीवितं तत्क्षयमन्तरा च मरणमिति युक्तमुक्तं तेषामपीत्यादि । ४४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy