________________
३४४ तत्त्वार्थाधिगमसूत्रम्
। अध्यायः ५ परिसमाप्तौ तदसम्भवान्मरणवचनम्, प्रेकृतमुपग्रहवचनमनादृत्यःयत् पुनरुपग्रहग्रहणं तद् विशिष्टार्थप्रतिपत्त्यर्थ, शरीराद्याकारेण साक्षात् कुर्वन्त्युपकारमात्मनः पुद्गलाः, अत्र पुनरात्मनः सुखाद्याकारेण परिणममानस्योपग्रहे वर्तन्ते पुद्गला इति ।
भा०-सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहश्च मरणोपग्रहश्चेति पुद्गलानामुपकारः॥
टी०-सुखोपग्रह इत्यादि भाष्यम् । बाह्यद्रव्यसम्बन्धापेक्षसāद्योदयात् संसार्यात्मनः प्रसादपरिणामः सुखम्, इष्टदारापत्यस्रगनुलेपनानपानादिद्रव्योपजनितमिति विस्तरः, तदेव च सुखमुपग्रहोऽनुग्रहः पुद्गलानां निमित्ततया परिणतावात्मनः, एवं दुःखादिष्वपि योजनीयम, असद्वद्योदयादात्मपरिणामो बाह्यद्रव्यापेक्षः सङ्क्लेशप्रायो दुःखं, भवस्थितिनिमित्तायुर्द्रव्यसम्बन्धमाजः पुरुषस्य प्राणापानलक्षणक्रियाविशेषाव्युपरमो जीवितं, तदशेषोपरतिमरणम्, कथं मरणमात्मोपग्रह इति चेत्, निर्विण्णस्य पुरुषस्य तत्प्रियत्वाद् विषादिद्रव्यसम्बन्धे सत्यायुषो योगपद्येनोपभोगोदयात् कण्टकवेदनावत् ॥
भा०-तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकाराः । अनिष्टा दुःखस्य । स्थानाच्छादनानुलेपनभोजनादीनि विधिप्रयुक्तानि जीवितस्यानपवर्तनं चायुष्कस्य । विषशस्त्राग्यादीनि मरणस्य, अपवर्तनं चायुष्कस्य ॥
टी-तद्यथेत्यादिना प्रत्येकमुदाहरणं सुखादीनां दर्शयति-स्पर्शादयः केचित् कदाचिदाशयवशाज्जन्तूनां वल्लभाः सन्तः सुखमात्मपरिणामस्वभावमुपकुर्वन्ति । कर्मणि षष्ठी द्रष्टव्या । त एव चानिष्टा द्वेष्याः सन्तः स्वाशयोत्प्रेक्षया दुःखस्योपकुर्वन्ति । तथा चाह
"तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य ।
निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ॥"-प्रशम० श्लो० ५२ अतः स्वचेतीविकल्पापेक्षमिष्टत्वमनिष्टत्वं वा स्पर्शादीनाम्, तथा स्नानादयो विधिप्रयोगाजीवितस्य प्राणधारणलक्षणस्योपकारकाः, विधिप्रयोगो देशकालमात्रासात्म्यद्रव्यगुरुलाघवस्वबलापेक्षः, जन्मान्तरप्रतिबद्धस्य चायुषोऽनपवर्तनम्, अपवर्तनं तु दीर्घस्यायुषोऽध्यवसा. यादिविशेषसाचिव्यादल्पतापादनं जीवितसंवर्तनमित्यर्थः । अनुग्राहकहेतुसनिधानात् तु तावन्मात्रतैव, सुबद्धत्वात्, पवेनश्लेषवत्, अनपवर्तनमिति, बद्धस्पृष्टनिहितनिकाचितचतुष्करण
१'मरगं' इति क-पाठः। २ विप्रियस्य दुःखमरणकारितया पुद्गलानामुपयोजनमध्यक्षसिद्धमेव, स्वरूपख्यापनमेतत्, तेन नैतत्कार्यता।
३ गतिस्थित्युपग्रहावित्यत्र समस्तत्वादुपग्रहस्य न तस्यानुवृत्तिः सन्नियोगेतिन्यायात्, उपकारशब्दस्त्वत्रापि पुदलानामुपकार इति अनुवयंत एव, तत आवश्यक उपग्रहग्रहणं, अन्यच सुखादीनि न पुद्गलरूपाणि किन्तु तज्जन्यानीति युक्तमुपग्रह इति, भावि भाष्यमपि तथैव । ४ तस्यापि पौगलिकत्वात तद्धारणावधिकलादेव जीवितस्येति । ५ पवनेन-वायुना शुष्यमाणः श्लेषः पवनश्लेषः, स हि गाढतमो न च शक्यते उद्वेष्टयितुम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org