________________
सूत्र २०] स्वोपज्ञभाष्य-टीकालङ्कतम्
३४३ अतो व्यवच्छिनत्ति नान्य इति । यत् तु तेषां स्वनीडाभिसर्पणं कृमिपिपीलिकादीनां तण्डुलकणश्यामाकबीजादिसंङ्ग्रहणवन्मनोव्यापारमन्तरेणैव तदवग्रहपाटवात्, तादृशी लब्धिरेव सा, न पुनरीहादिज्ञानभेदविचारयोग्यो द्वीन्द्रियादिः।
कथं पुनरात्मा शरीरादियोग्यान पुद्गलानादत्ते कथं वा परस्परेण ते संहतास्तिष्ठन्ति न विशीर्यन्ते इत्याक्षिप्ते आह
भा०-वक्ष्यते हि-सकषायत्वाजीवः कर्मणो योग्यान पुद्गलानादत्त इति ( अ० ८, सू० २) ॥१९॥ किश्चान्यत्
टी०- वक्ष्यते हीत्यादि। यस्मादभिधास्यतेऽष्टमेऽध्याये बन्धलक्षणं सकषायत्वाजीवा कर्मणो योग्यान पुद्गलानादत्त इति, कषायाः क्रोधादयः सह तैः सकषायस्तस्मात् प्रत्ययात् कषायाख्यादात्मा ज्ञानावरणादिकर्मयोग्यान् सर्वात्मप्रदेशै!कर्मयोग्यांश्च पुद्गलानादत्ते, आह च
" ऊष्मगुणः सन्दीपः, स्नेह वा यथा समादत्ते । आदाय शरीरतया, परिणमयति चापि त स्नेहम् ॥ तद्वद् रागादिगुणः, स्वयोगवात्मदीप आदत्ते।
स्कन्धानादाय तथा, परिणमयति ताँश्च कमेतया ॥" तस्मात् शरीराधाकारेणोपकारिणः प्राणिनां पुद्गला एव, न प्रधानविज्ञानस्वभावेश्वरनियतिहठपुरुषकालादयः शरीराद्याकारपरिणतिभाजो, नियुक्तिकत्वादिति ॥ १९॥ .
एष तावत् पुद्गलकृत उपकारो जीवानां शरीरादि, अधुना निमित्तमात्रताप्रदर्शनार्थ सम्बध्नाति-किश्चान्यदिति, पूर्वोपकारापेक्षमुच्यते । आकारान्तरेणापि पुद्गलानामुपकारकत्वं निमित्तमात्रतयेत्याह
सूत्रम्-सुखदुःखजीवितमरणोपग्रहाश्च ॥ ५-२०॥ टी-चशब्देन पुद्गलानामुपकार इत्यनुकृष्यते । शरीरादिसूत्रविन्यासं कृत्वा प्राक् किमर्थमिदं विभागेनाधुना भण्यते १। उच्यते-सुखादीनामुयापेक्षत्वात् प्राच्यानां ग्रहणमात्रविषयत्वाद् विभक्तिरिति, द्वन्द्वपूर्वः समानाधिकरणस्तत्पुरुषः, सुखग्रहणं प्राक तदर्थे चेष्टादर्शनात्, तदनन्तरं दुःखवचनं तत्प्रतिपक्षत्वात्, जीवतस्तदुभयदर्शनात तदन्ते जीवितग्रहणं, कर्मोपभोग१ 'संग्रहं तन्मनो' इति क-पाठः ।। २ विशिष्टमनोव्यापारमपेक्ष्यैतत्, हेतुवादसंज्ञा तु तेषामस्त्येव तत्प्रयोजिका । ईहादि चात्र:संप्रधारणरूपं दीर्घकालीनस्मरणादिरूपं वा, प्राप्तेन्द्रियोहादेस्तु तेषां सद्भावोऽविरुद्धः। ३ सिद्धालयेऽपि पुद्गलसद्भावात् किं न सिद्धानां शरीरादितया पुद्रलोपकार इत्याह४ सातवेदनीयोदयादौ अपेक्षाकारणत्वात् इति भावः । ,शरीरादौ तु परिणामिकारणं पुदला इति प्रहणेत्यादि । ६ 'प्रहणविषयत्वाद् इति क-ब-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org