________________
३४२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ छमस्थानां श्रुतज्ञानावरणक्षयोपशम(जन)नाय करणं तदवष्टम्भजनितं च गुणदोषविचारणात्मकं सम्प्रधारणं संज्ञाज्ञानं धारणाज्ञानं तद्भावमनः ॥ तथा चाह
"चित्तं चेतो योगोऽध्यवसानं चेतना परीणामः ।
भावो मन इति चैते छुपयोगार्थी जगति शब्दाः ॥" अत्र त्वेवंविधभावमनोनिमित्तेन पौद्गलिफेन सर्वात्मप्रदेशवर्तिना मनसाऽधिकारः, कोष्ठयो वायुरुच्छासलक्षणः प्राणस्तद्विधपरिणामापत्तेः, तथा बाह्यो वायुरभ्यन्तरीक्रियमाणोऽपानसंज्ञितः, एतावप्यात्मनोऽनुग्राहको, रूपिद्रव्यपरिणामात् प्रतिघातदर्शनाद् द्वारानुविधायित्वाच मूर्तिमत्ताऽवसेया ॥
भा० -तत्र शरीराणि यथोक्तानि ( अ० २, सू० ३७ )। प्राणापानौ च नामकर्मणि व्याख्याती (अ०८, सू० १२)॥
टी-द्वितीयाध्याये शरीराण्यौदारिकादीनि यथा व्याख्यातानि तथैवेह प्रतिपत्तव्यानि, प्राणापानावष्टमेऽध्याये नामकर्मणि गतिजात्यादिसूत्रे पञ्चप्रकारपर्याप्तिकर्मणि प्राणापानक्रियायोग्यद्रव्यग्रहणशक्तिः निवेतेनक्रियापरिसमाप्तिः प्राणापानपयोप्तिरित्यत्र भाष्य व्याख्यास्येते, कथं तर्हि व्याख्याती आशंसायामर्थे भूतवद् वर्तमानवच्च प्रत्यया भवन्ति, उपाध्यायश्चेद् आगमिष्यति तद्व्याकरणमधीतमेवमिहापि नामकर्माशंसितमित्यदोषः ॥ ___ भा०-द्वीन्द्रियादयो जिहेन्द्रियसंयोगाद् भाषात्वेन गृह्णन्ति नान्ये, संज्ञिनश्च मनस्त्वेन गृह्णन्ति, नान्य इति ।
___टी०-दीन्द्रियादि भाष्यम् । द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तरसनेन्द्रियसम्बन्धतो भाषात्वेनेति भाषापरिणामयोग्याननन्तप्रदेशान् स्कन्धानाददते काययोगेन, भाषापयोप्तिकरणेन निसृजति, अनेनैतद् दर्शयति-यत्रैव जितेन्द्रिययोगस्तत्रैव भाषापर्याप्तिः जिह्वाश्रयत्वाद,अतोऽन्ये व्यवच्छिद्यन्ते पृथिव्यादयो वायुपर्यन्ता एकेन्द्रियाः, तेषां रसनेन्द्रिययोगाभावादजिहत्वाभाषाभावः, दीन्द्रियादयश्च तद्युक्ताः सन्तः स्वभाषात्वेन तान् पुद्गलान् परिणमय्यार्यम्लेच्छवत् प्रतिनियता एव भाषाः प्रयुञ्जते, संज्ञिनश्चेत्यादि गुणदोषविचारणात्मिका सम्प्रधारणा संज्ञा तद्योगात् संज्ञिनः, चशब्द एवार्थे, त एव मनःपरिणामेन मनोवगेणायोग्यान् स्कन्धाननन्तान् मन्तुकामाः सर्वाङ्गीणानाददते, ततस्तद्भलेन पुनर्गुणदोषविचारणाभावेन परिणमन्ते, ये त्वेवंविधसंज्ञाभाजो न भवन्त्येकेन्द्रियादयोऽसंज्ञिपञ्चेन्द्रियान्तास्ते नैव मन्यन्ते,मनःपर्याप्तिकरणाभावात,
१'धारणसंज्ञानं ' इति क-ख-पाठः। २ प्राणापानरोधेन मरणादिभावात्, अत एव च कायोत्सर्गेऽपि नोच्छ्वासादिरोधानुज्ञा, आकारता च तत्र तेषाम् ।
३ सूत्रावतरणेष्वनेकेषु वक्ष्यते इत्यादिकथनं मूलसूत्रविषयतयोक्तं, अत्र तु व्याख्यातावितिकथनं तयोरसिद्धता कथयति, नहि क्वापि कर्मण्येते श्रूयेते, ततः पारमार्षसिद्धं विषयं भनसिकृत्याहैतत् ।
४ नापर्याप्ते वाग्योग इति पर्याप्तेति, तथा च पर्याप्तस्य यद् रसनेन्द्रियं तस्य संबन्धत इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org