________________
सूत्रं १७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३३७
तस्मात् संहारविसर्गावात्मनः कर्मानुभावजनितौ, न च नाशः सत्यपि संहारे विकासे वाऽमूतत्वात्, न च स्वतच्वनाशोऽस्ति वस्तुनः कस्यचित् सर्वथा स्याद्वादिनं प्रति, प्रदेशसङ्ख्यायाश्रात्मनः सङ्कोचविकासयोः सतोरपि हासो वृद्धिर्वा न समस्ति, क्षेत्रतस्तु तावात्मनः स्यातामिति प्रतिपद्यध्वम् ॥ १६॥
भा०—अत्राह-उक्तं भवता ( अ० ५, सू० १) - धर्मादीनस्तिकायान् परतालक्षणतो वक्ष्याम इति । तत् किमेषां लक्षणमिति १ । अत्रोच्यते
टी०—अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः । अस्यैवाध्यायस्य प्रथमसूत्रे तालक्षणतः परस्ताद् वक्ष्याम इत्युक्तं तदिदानीमवकाशप्राप्तमभिधीयते—
सूत्रम् — गतिस्थित्युपग्रह धर्माधर्मयोरुपकारः ॥ ५-१७॥
डी० - गतीत्यादि सूत्रम् । अथवा तुल्येऽसङ्ख्येयप्रदेशत्वे सति कृत्स्नलोकव्यापि - त्वमेव धर्माधर्मयोर्न पुनरसङ्ख्येयभागादिषु वृत्तिरित्येतत् कथमनपदिष्टहेतु कमवसातुं शक्यमित्यत्र मो वयमवसीयताम संशयम्, यस्मात् प्रयोग विस्रसापरिणामजनिताम ने कप्रकारां सार्वलौकिकीमन्यद्रव्येष्वसम्भवन्तीमात्मपुद्गलानां क्रियामारभमाणानां चक्षुषो दर्शनशक्तेरुपग्राहकादित्यादिरश्मिवद् गतिस्थित्योरुपग्राहक धर्माधर्माविति कार्यतो निश्चीयते सकलजगद्व्यापि - नाविति, तच्चासाधारणं कार्य सूत्रेण दर्शयति ॥
भा० – गतिमतां गतेः स्थितिमतां च स्थितेरुपग्रहो धर्माधर्मयोरुपकारो यथासङ्ख्यम् | उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनर्थान्तरम् । उपकारः प्रयोजनं गुणोऽर्थ इत्यनर्थान्तरम् ॥ १७ ॥
टी० – गतियतामित्यादि भाष्यम् । देशान्तरप्राप्तिहेतुः परिणामो गतिः, तद्विपरीतः परिणामः स्थितिः, तद्वन्तस्तादृशा परिणामेनाविष्टा इति, अत एवंविधक्रियापरिणतद्रव्यमेव गतिस्थितिशब्दाभ्यामुच्यते, तद्व्यतिरेकेण गतिस्थितिक्रियानुपलब्धेः, एकस्यैवोपग्रहद्वय निवृश्यर्थ यथासङ्ख्यकमुपन्यस्यति - गतिमतामित्यादिना भाष्येण । जीवपुद्गलाः क्रियावन्तो यत्र च गतिः तत्रावश्यंतया स्थित्याऽपि भवितव्यम् । अथवा धर्मद्रव्यस्य सन्निहितत्वात् किमित्यव्याहता गतिरेव सततं न भवत्यविकलकारणकलापसन्निधाववश्यंभाविनी कार्योत्पत्तिरेवं स्थितिरपि वाच्येत्याक्षिप्ते गतिमतामित्याह । स्वत एव गतिपरिणतिर्येषां द्रव्याणां स्थितिपरिणतिश्च तेषामुपग्राहक धर्माधर्मावपेक्षाकारणमाकाशकालादिवन्न निर्वर्तकं कारणम्, निर्वर्तकं हि तदेव जीवद्रव्यं पुद्गलद्रव्यं वा गतिस्थितिक्रियाविष्टम्, धर्माधर्मौ पुनरुपग्राहकावनुपघातकावनुग्राहकावित्यर्थः । स्वभावत एव हि गतिस्थितिपरिगतानि द्रव्याणि तावुपगृह्णीतः,
१ 'वृद्धिर्न रामस्ति' इति क- स्त्र-पाठः । २ ०पग्रहो धर्मा०' इति घ-पाठः । ३ ' निवर्तकं ' इति क-ख- पाठः । જર્
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org